अध्यायः 151
युधिष्ठिरेण भ्रातॄन्प्रति कस्यचित्सेनापतित्वकल्पने स्वस्वाभिप्रायनिवेदनचोदना ॥ 1 ॥ तैः स्वस्वाभिप्रायनिवेदनानन्तरं युधिष्ठिरेण श्रीकृष्णम्प्रति तदभिप्रायनिवेदनप्रार्थना ॥ 2 ॥ श्रीकृष्णेन धृष्टद्युम्नस्य सेनापतित्वेन वरणस्य स्वाभिमतत्वकथने राज्ञां हर्षात्समुद्धोपः ॥ 3 ॥ युधिष्ठिरादीनां सर्वेषां कुरुक्षेत्रप्रवेशः ॥ 4 ॥
वैशम्पायन उवाच । 001
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः । 001a
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥ 001c
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । 002a
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ 002c
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । 003a
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ॥ 003c
तासां ये पतयः सप्त विख्यातास्तान्निबोधत । 004a
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ 004c
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । 005a
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ 005c
सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः । 006a
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ 006c
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः । 007a
सप्तानामपि यो नेता सेनानां प्रविभागवित् ॥ 007c
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् । 008a
तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन । 008c
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ 008e
सहदेव उवाच । 009
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः । 009a
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ 009c
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । 010a
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥ 010c
वैशम्पायन उवाच । 011
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । 011a
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ 011c
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । 012a
ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ 012c
वेद चास्त्रं भारद्वाजाद्दुर्धर्षः सत्यसङ्गरः । 013a
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ 013c
श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः । 014a
पुत्रपौत्रेः परिवृतः शतशाख इव द्रुमः ॥ 014c
यस्तताप तपो घोरं सदारः पृथिवीपतिः । 015a
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ 015c
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । 016a
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ॥ 016c
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम । 017a
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ 017c
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः । 018a
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ 018c
योयं तपःप्रभावेन ऋषिसन्तोषणेन च । 019a
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ॥ 019c
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः । 020a
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ 020c
गर्जन्निव महामेघो रथघोषेण वीर्यवान् । 021a
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ॥ 021c
सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः । 022a
सिंहप्रगर्जनो वीरः संहस्कन्धो महाद्युतिः ॥ 022c
शुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । 023a
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ 023c
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । 024a
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ 024c
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् । 025a
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ 025c
यमदूतसमान्वेगे निपाते पावकोपमान् । 026a
रामेणाजौ विषिहितान्वज्रनिष्पेषदारुणान् ॥ 026c
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् । 027a
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ 027c
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । 028a
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ 028c
'अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे ।' 029a
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । 029c
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ 029e
यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः । 030a
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ 030c
न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनाम् । 031a
शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम् ॥ 031c
द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् । 032a
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ 032c
युधिष्ठिर उवाच । 033
सर्वस्य जगतस्तात सारासारं बालाबलम् । 033a
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ॥ 033c
यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम । 034a
कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ 034c
एष नो विजये मूलमेष तात विपर्यये । 035a
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ 035c
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता । 036a
यमाह कृष्णो दाशार्हः सोस्तु नो वाहिनीपतिः ॥ 036c
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते । 037a
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ॥ 037c
रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् । 038a
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ 038c
वैशम्पायन उवाच । 039
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः । 039a
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥ 039c
ममाप्येते महाराज भवद्भिर्य उदाहृताः । 040a
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ॥ 040c
सर्व एव समर्था हि तव शत्रुं प्रबाधितुम् । 041a
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ॥ 041c
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् । 042a
मयापि हि महाबाहो त्वत्प्रियार्थं महाहवे ॥ 042c
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत । 043a
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ 043c
कृतार्थं मन्यते बाल आत्मनमविचक्षणः । 044a
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ॥ 044c
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः । 045a
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥ 045c
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । 046a
युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम् ॥ 046c
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि । 047a
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान् ॥ 047c
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् । 048a
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ॥ 048c
धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम । 049a
वैशम्पायन उवाच । 049
एवमुक्ते तु कृष्णेन सम्प्राहृष्यन्नरोत्तमाः ॥ 049c
तेषां प्रहृष्टमनसां नादः समभवन्महान् । 050a
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् ॥ 050c
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः । 051a
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ॥ 051c
तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम् । 052a
रथपत्तिगजोदग्रं महोर्मिभिरिवाकुलम् ॥ 052c
धावतामाह्वयानानां तनुत्राणि च बध्नताम् । 053a
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ॥ 053c
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी । 054a
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ॥ 054c
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः । 055a
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ॥ 055c
ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि । 056a
हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशम् ॥ 056c
प्रहृष्टा दंशिता योधाः परानीकविदारणाः । 057a
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 057c
शकटापणवेशाश्च यानयुग्यं च सर्वशः । 058a
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥ 058c
फल्गु यच्चं बलं किञ्चिद्यच्चापि कृशदुर्बलम् । 059a
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥ 059c
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । 060a
सह स्त्रीभिर्निववृते दासीदाससमावृता ॥ 060c
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः । 061a
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ 061c
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः । 062a
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥ 062c
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । 063a
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ 063c
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः । 064a
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥ 064c
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः । 065a
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥ 065c
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा । 066a
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ॥ 066c
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः । 067a
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥ 067c
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । 068a
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ 068c
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः । 069a
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ॥ 069c
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । 070a
निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः ॥ 070c
शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् । 071a
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ ॥ 071c
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥
5-151-9 संयुक्तः सम्बन्धी ॥ 5-151-12 कुलेन वंशेन । अभिजनेन स्वजनसमूहेन ॥ 5-151-17 अङ्गिरसो द्रोणस्य ॥ 5-151-38 शस्त्राणामधिवासनं गन्धाद्यैः पूजनम् ॥ 5-151-48 अस्माकं बलं कर्तृ ॥ 5-151-50 योगो युद्धाय सज्जीभवनम् ॥ 5-151-58 शकटा अनांसि । आपणो वणिग्वीथ्युपलक्षितं विक्रेयद्रव्यम् ॥ 5-151-61 मूलप्रतीकारं धनदाररक्षाम् । गुल्मैः स्थावरैः प्रकाररूपैः । जङ्गमैः परितः स्थानेस्थाने शूरसङ्घैः । स्कन्धावारेण सैन्येन ॥ 5-151-65 जघनार्धे पश्चिमार्धे ॥ 5-151-70 समहृष्यन्त रोमाञ्चितानि ॥