अध्यायः 150
कृष्णेन पाण्डवान्प्रति भीष्मादिवचनमवधूय समुत्थितेन दुर्योधनेन चोदितानां राज्ञां भीष्मं पुरस्कृत्य सेनाभिः सह कुरुक्षत्रेप्रस्थानकथनम् ॥ 1 ॥ तथा स्वेन सामादित्रयप्रयोगेऽप्यवशीभूते दुर्योधने दण्डस्यैव प्रयोक्तव्यत्वकथनम् ॥ 2 ॥
भगवानुवाच । 001
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च । 001a
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत ॥ 001c
अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः । 002a
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥ 002c
आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः । 003a
प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥ 003c
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः । 004a
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥ 004c
अक्षौहिण्यो दशैका च कौरवाणां समागताः । 005a
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥ 005c
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशाम्पते । 006a
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ॥ 006c
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत । 007a
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ 007c
साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता । 008a
अभेदायास्य वंशस्य प्रजानां च विवृद्धये ॥ 008c
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते । 009a
कर्मानुकीर्तनं चैव देवमानुषसंहितम् ॥ 009c
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः । 010a
तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ 010c
अद्भुतानि च घोराणि दारुणानि च भारत । 011a
अमानुषाणि कर्माणि दर्शितानि मया विभो ॥ 011c
निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् । 012a
राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥ 012c
द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः । 013a
भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत् ॥ 013c
पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् । 014a
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥ 014c
ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च । 015a
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥ 015c
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च । 016a
यथाह राजा गाङ्गेयो विदुरश्च हितं तव ॥ 016c
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय । 017a
अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥ 017c
एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत । 018a
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ 018c
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः । 019a
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ 019c
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव । 020ac
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥ ॥ 020c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥