अध्यायः 149

कृष्णेन पाण्डवान्प्रति धृतराष्ट्रेण दुर्योधनम्प्रत्युक्तवचनानुवादः ॥ 1 ॥ वासुदेव उवाच । 001
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः । 001a
दुर्योधनमुवाचेदं राजमध्ये जनाधिप ॥ 001c
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक । 002a
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥ 002c
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः । 003a
सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः ॥ 003c
तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः । 004a
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥ 004c
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः । 005a
शर्मिष्ठया सम्प्रसूतो दुहित्रा वृषपर्वणः ॥ 005c
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् । 006a
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥ 006c
यादवानां कुलकरो बलवान्वीर्यसम्मतः । 007a
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥ 007c
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः । 008a
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥ 008c
पृथिव्यां चतुरन्तायां यदुदेवाभवद्बली । 009a
वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये ॥ 009c
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः । 010a
शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत् ॥ 010c
ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः । 011a
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥ 011c
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् । 012a
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥ 012c
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते । 013a
यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया ॥ 013c
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः । 014a
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥ 014c
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः । 015a
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ 015c
देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् । 016a
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ॥ 016c
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः । 017a
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥ 017c
पौरजानपदानां च सम्मतः साधुसत्कृतः । 018a
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ॥ 018c
वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः 019a
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥ 019c
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः । 020a
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥ 020c
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः । 021a
सम्भारानभिषेकार्थं कारयामास शास्त्रतः ॥ 021c
कारयामास सर्वाणि मङ्गलार्थानि वै विभुः । 022a
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ॥ 022c
सर्वे निवारयामासुर्देवापेरभिषेचनम् । 023a
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् । 023c
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥ 023e
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् । 024a
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥ 024c
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः । 025a
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥ 025c
ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः । 026a
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥ 026c
बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः । 027a
पितृभ्रातॄन्परित्यज्य प्राप्तवान्परमर्धिमत् ॥ 027c
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः । 028a
पितर्युपरते राजन्राजा राज्यमकारयत् ॥ 028c
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना । 029c
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥ 029c
पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः । 030a
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम ॥ 030c
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि । 031a
अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि ॥ 031c
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य । 032a
स कौरवस्यास्य कुलस्य भर्ता प्रशासिता चैव महानुभावः ॥ 032c
स सत्यसन्धः स तथाऽप्रमत्तःशास्त्रे स्थितो बन्धुजनस्य साधुः । 033a
प्रियः प्रजानां सुहृदानुकम्पीजितेन्द्रियः साधुजनस्य भर्ता ॥ 033c
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः । 034a
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥ 034c
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धः सदा बन्धुषु पापबुद्धिः । 035a
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीत ॥ 035c
प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्व सपरिच्छदं च । 036a
ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र ॥ ॥ 036c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥