अध्यायः 148
कृष्णेन पाण्डवान्प्रति द्रोणवाक्यानुवादः ॥ 1 ॥ तथा भीष्मम्प्रत्युक्तविदुरवचनानुवादः ॥ 2 ॥ तथा गान्धारीवचनानुवादः ॥ 3 ॥
वासुदेव उवाच । 001
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत । 001a
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ 001c
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः । 002a
यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥ 002c
तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः । 003a
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः ॥ 003c
ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते । 004a
यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः ॥ 004c
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् । 005a
वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः ॥ 005c
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् । 006a
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥ 006c
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् । 007a
अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम् ॥ 007c
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च । 008a
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ॥ 008c
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे । 009a
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ॥ 009c
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः । 010a
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ॥ 010c
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः । 011a
अन्वास्यमानः सततं विदुरेण महात्मना ॥ 011c
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि । 012a
सम्भूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप ॥ 012c
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन । 013a
भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम ॥ 013c
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप । 014a
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥ 014c
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन । 015a
सममाचार्यकं तात तव तेषां च मे सदा ॥ 015c
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम । 016a
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ 016c
वासुदेव उवाच । 017
एवमुक्ते महाराज द्रोणेनामिततेजसा । 017a
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः । 017c
पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित् ॥ 017e
विदुर उवाच । 018
देवव्रत निबोधेदं वचनं मम भाषतः । 018a
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥ 018c
तन्मे विलपमानस्य वचनं समुपेक्षसे । 019a
कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥ 019c
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे । 020a
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः । 020c
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥ 020e
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै । 021a
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥ 021c
मां चैव धृतराष्ट्रं च पूर्वमेव महामते । 022a
चित्रकार इवालेख्यं कृत्वा स्थापितवानसि ॥ 022c
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा । 023a
नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम् ॥ 023c
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते । 024a
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ 024c
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् । 025a
शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम् ॥ 025c
प्रसीद राजशार्दूल विनाशो दृश्यते महान् । 026a
पाण्डवानां कुरूणां च राज्ञाममिततेजसाम् ॥ 026c
वासुदेव उवाच । 027
विररामैवमुक्त्वा तु विदुरो दीनमानसः । 027a
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥ 027c
ततोऽस्य राज्ञः सुबलस्य पुत्रीधर्मार्थयुक्तं कुलनाशमीता । 028a
दुर्योधनं पापमतिं नृशंसंराज्ञां समक्षं सुतमाह कोपात् ॥ 028c
ये पार्थिवा राजसभां प्रविष्टाब्रह्मर्षयो ये च सभासदोऽन्ये । 029a
श्रृण्वन्तु वक्ष्यामि तवापराधम्पापस्य सामात्यपरिच्छदस्य ॥ 029c
राज्यं कुरूणामनुरूपभोज्यङ्क्रमागतो नः कुलधर्म एषः । 030a
त्वं पापबुद्धेऽतिनृशंसकर्मन्राज्यं कुरूणामनयाद्विहंसि ॥ 030c
राज्ये स्थितो धृतराष्ट्रो मनीषीतस्यानुजो विदुरो दीर्घदर्शी । 031a
एतावतिक्रम्य कथं नृपत्वन्दुर्योधन प्रार्थयसेऽद्य मोहात् ॥ 031c
राजा च क्षत्ता च महानुभावौभीष्मे स्थिते परवन्तौ भवेताम् । 032a
अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः ॥ 032c
राज्यं तु पाण्डोरिदमप्रधृष्यन्तस्याद्य पुत्राः प्रभवन्ति नान्ये । 033a
राज्यं तदेतन्निखिलं पाण्डवानाम्पैतामहं पुत्रपौत्रानुगामि ॥ 033c
यद्वै ब्रूते कुरुमुख्यो महात्मादेवव्रतः सत्यसन्धो मनीषी । 034a
सर्वं तदस्माभिरहत्य कार्यंराज्यं स्वधर्मान्परिपालयद्भिः ॥ 034c
अनुज्ञया चाथ महाव्रतस्यब्रूयान्नृपोऽयं विदुरस्तथैव । 035a
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यन्धर्मं पुरस्कृत्य सुदीर्घकालम् ॥ 035c
न्यायागतं राज्यमिदं कुरूणांयुधिष्ठिरः शास्तु वै धर्मपुत्रः । 036a
प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शान्तनवेन चैव ॥ ॥ 036c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥
5-148-4 यथा ज्येष्ठायाददत् तथा क्षत्रे विदुरायापि न्यासभूतमददादिति भावः ॥ 5-148-9 संवननमात्मीयताकरणम् ॥ 5-148-17 पितुर्भीष्मस्य ॥ 5-148-20 शास्त्रं आज्ञाम् ॥