अध्यायः 147

कृष्णेन पाण्डवान्प्रति सङ्क्षेपेण हास्तिननगरवृत्तान्तकथनम् ॥ 1 ॥ पाण्डवैः कृष्णम्प्रति विस्तरेण भीष्मादिवचनकथनप्रार्थना ॥ 2 ॥ कृष्णेन शमविधायकभीष्मवचनानुवादः ॥ 3- ॥ वैशम्पायन उवाच । 00
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः । 001a
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ 001a
सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः । 001a
स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह ॥ 001a
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा । 001a
पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति ॥ 001a
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः । 004a
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥ 004c
युधिष्ठिर उवाच । 005
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः । 005a
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥ 005c
वासुदेव उवाच । 006
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः । 006a
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥ 006c
युधिष्ठिर उवाच । 007
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः । 007a
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ॥ 007c
आचार्यो वा महाभाग भारद्वाजः किमब्रवीत् । 008a
पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् ॥ 008c
पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः । 009a
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ॥in:sent 009c
किञ्च सर्वे नृपतयः सभायां ये समासते । 010a
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥ 010c
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः । 011a
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि ॥ 011c
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः । 012a
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ॥ 012c
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो । 013a
यथा च नाभिपद्येत कालस्तात तथा कुरु । 013c
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥ 013e
वासुदेव उवाच । 014
श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः । 014a
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥ 014c
मया विश्राविते वाक्ये जहास धृतराष्ट्रजः । 015a
अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥ 015c
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते । 016a
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥ 016c
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः । 017a
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥ 017c
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः । 018a
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥ 018c
न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः । 019a
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥ 019c
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च । 020a
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव । 020c
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥ 020e
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः । 021a
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिव ॥ 021a
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम् । 022a
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥ 022c
तस्याहं सदृशान्दारान्राजेन्द्र समुपाहरम् । 023a
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ॥ 023c
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् । 024a
स हि रामभयादेभिर्नागरैर्विप्रवासितः ॥ 024c
दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत । 025a
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः । 025c
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥ 025e
प्रजा ऊचुः । 026
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः । 026a
ईतीः प्रणुद भद्रं ते शन्तनोः कुलवर्धन ॥ 026c
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः । 027a
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥ 027c
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय । 028a
त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु ॥ 028c
भीष्म उवाच । 029
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः । 029a
प्रतिज्ञां रक्षमाणस्य तद्वृत्तं स्मरतस्तथा । 029c
ततः पौरा महाराज माता काली च मे शुभा ॥ 029e
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः । 030a
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ॥ 030c
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति । 031a
स त्वमस्मद्धितार्थं वै राजा भव महामते ॥ 031c
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः । 032a
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगोरवात् ॥ 032c
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः । 033a
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ॥ 033c
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् । 034a
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ॥ 034c
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः । 035a
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम् ॥ 035c
अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले । 036a
एवं तामनुनीयाहं मातरं जनसन्निधौ ॥ 036c
अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् । 037a
सह मात्रा महाराज प्रसाद्य तमृषिं महामुनिम् । 037c
अपत्यार्थं महाराज प्रसादं कृतवांश्च सः । 038a
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥ 038c
अन्धः करणहीनत्वान्न वै राजा पिता तव । 039a
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥ 039c
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः । 040c
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥ 040c
मयि जीवति राज्यं कः सम्प्रशासेत्पुमानिह । 041a
मावमंस्या वचो मह्यं शममिच्छामि वः सदा ॥ 041c
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव । 042a
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥ 042c
श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम । 043a
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ॥ ॥ 043c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥

5-147-13 नाभिपद्येत नातिक्रामेत ॥ 5-147-19 कालीं सत्यवतीम् ॥ 5-147-20 प्रतीतः तुष्टः ॥ 5-147-24 विप्रवासितः दूरेस्थापितः ॥