अध्यायः 146

सूर्येण कर्णम्प्रति कुन्तीवचनस्वीकरणविधानम् ॥ 1 ॥ कर्णेन कुन्तीम्प्रति सोपालम्भं दुर्योधनपरित्यागस्य सयुक्तिकमनौचेत्यकथनपूर्वकं अर्जुनवर्जं पाण्डवासंहरणप्रतिज्ञानम् ॥ 2 ॥ वैशम्पायन उवाच । 001
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् । 001a
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥ 001c
सूर्य उवाच । 002
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु । 002a
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥ 002c
वैशम्पायन उवाच । 003
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना । 003a
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥ 003c
कर्ण उवाच । 004
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया । 004a
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥ 004c
अकरोन्मयि यत्पापं भवती सुमहात्ययम् । 005a
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ॥ 005c
अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रिया 006a
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम । 007a
हीनसंस्कारसमयमद्य मां समचूचुदः ॥ 007c
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया । 008a
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी ॥ 008c
कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात् । 009a
कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम् ॥ 009c
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः । 010a
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥ 010c
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् । 011a
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥ 011c
उपनह्य परैर्वैरं ये मां नित्यमुपासते । 012a
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥ 012c
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् । 013a
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ॥ 013c
मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् । 014a
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥ 014c
अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् । 015a
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ 015c
कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते । 016a
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥ 016c
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् । 017a
नैवायं न परो लोको विद्यते पापकर्मणाम् । 017c
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः । 018a
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ॥ 018c
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् । 019a
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥ 019c
न च तेऽयं समारम्भो मयि मोघो भविष्यति । 020a
वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान् ॥ 020c
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते । 021a
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ॥ 021c
अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात्फलं मया । 022a
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ 022c
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि । 023a
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥ 023c
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती । 024a
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ॥ 024c
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः । 025a
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥ 025c
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन । 026a
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥ 026c
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् । 027a
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ ॥ 027c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥

5-146-4 न श्रद्दधे कर्तव्यत्वेन न मन्ये । धर्मद्वारं विपरीतलक्षणया धर्मापगमद्वारम् । तव नियोगकरणं त्वदाज्ञप्तार्थानुष्ठानम् ॥ 5-146-5 सुमहात्ययं सुमहान् अत्ययो जातिभ्रंशाख्यो विनाशो यस्मात् । अपाकीर्णस्त्यक्तः ॥ 5-146-6 त्वत्कृते त्वत्सुखार्थं कानीनो गर्भः प्रकटो माभूदिति हेतोरहं क्षत्रसत्क्रियां चेन्न प्राप्तस्तर्हि त्वदन्यः कः शत्रुः किं ममाहितं पापीय इति इतोपि पापतरं कुर्यान्न कोऽपीत्यर्थः ॥ 5-146-7 क्रियाकाले क्षत्रियोचितसंस्कारकाले । अनुक्रोशं दयाम् । समचूचुदः स्वकार्यार्थं प्रेरितवत्यसि ॥ 5-146-12 उपनह्य बध्वा ॥ 5-146-13 प्रतिसमासितुं जेतुम् ॥ 5-146-15 निर्वेष्टव्यं आनृण्यं कर्तव्यम् ॥ 5-146-20 विषह्यान् हन्तुं शक्यानपीत्यर्थः ॥