अध्यायः 145

कुन्त्या कर्णम्प्रति तस्य सूर्यात्स्वस्मिन् जननकथनपूर्वकं पाण्डवैः सह सङ्गमचोदना ॥ कर्ण उवाच । 001
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये । 001a
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ॥ 001c
कुन्त्युवाच । 002
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता । 002a
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ॥ 002c
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः । 003a
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक ॥ 003c
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः । 004a
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥ 004c
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः । 005a
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥ 005c
स त्वं भ्रातॄनसम्बुद्ध्य मोहद्यदुपसेवसे । 006a
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥ 006c
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये । 007a
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ॥ 007c
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः । 008a
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ॥ 008c
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् । 009a
सौभ्रात्रेण समालक्ष्य सन्नमन्तामसाधवः । 009c
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ । 010a
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः ॥ 010c
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः । 011a
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे ॥ 011c
उपपन्नो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु । 012a
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥ ॥ 012c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥

5-145-7 एकं पुत्रमेव स्नेहेन पश्यन्ती एकदर्शिनी ॥