अध्यायः 144
विदुरेण कुन्तीसमीपे युद्धे बहुवीरविनाशानुचिन्तनेन शोचनम् ॥ 1 ॥ कर्णपराक्रमभीतया कुन्त्या पाण्डवान्प्रति तन्मनःप्रसादनेच्छया गङ्गातीरे कर्णसमीपगमनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते । 001a
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥ 001c
जानासि मे जीवपुत्रि भावं नित्यमविग्रहे । 002a
क्रोशतो नच गृह्णीते वचनं मे सुयोधनः ॥ 002c
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः । 003a
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥ 003c
उपप्लाव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः । 004a
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥ 004c
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति । 005a
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥ 005c
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च । 006a
सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते । 006c
अधर्मेण हि धर्मिष्ठं ह्रियते राज्यमीदृशम् । 007a
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥ 007c
क्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् । 008a
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥ 008c
ततः कुरूणामनयो भविता वीरनाशनः । 009a
चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥ 009c
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् । 010a
सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह ॥ 010c
धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसङ्क्षयः । 010c
वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः ॥ 011a
पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः । 011c
भारतैः सह योत्स्यन्ति किं नु दुःखमतःपरम् ॥ 012a
पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् । 012c
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः । 013a
इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते ॥ 013c
पितामहः शान्तनव आचार्यश्च युधां पतिः । 014a
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥ 014c
नाचार्यः कामवाञ्शिष्यैर्द्रोणोयुद्ध्येत जातुचित् । 015a
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः । 015c
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः । 016a
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥ 016c
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः । 017a
कर्णः सदा पाण्डवानां तन्मे दहति सम्प्रति ॥ 017c
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति । 018a
प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥ 018c
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ । 019a
आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि ॥ 019c
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता । 020a
चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥ 020c
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् । 021a
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥ 021c
धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा । 022a
दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी ॥ 022c
कथं नु सुकृतं मे स्यान्नापराधवती कथम् । 023a
भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च ॥ 023c
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा । 024a
कन्या सती देवमर्कमासादयमहं ततः ॥ 024c
योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः । 025a
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥ 025c
इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् । 026a
कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति ॥ 026c
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः । 027a
गङ्गातीरे पृथापश्यञ्जपस्थानमनुत्तमम् ॥ 027c
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः । 028a
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥ 028c
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि । 029a
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥ 029c
आपृष्ठतापाज्जप्त्वा स परिवृत्त्य यतव्रतः । 030a
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ॥ 030c
यथान्यायं महातेजा मानी धर्मभृतां वरः । 031a
उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः ॥ ॥ 031c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥
5-144-8 बलाद्धर्मे पाखण्डिनां पारदार्यं उभयसन्तोषकरमिति द्वयोरपि धर्महेतुरिति बलात्कल्पना शास्त्रबहिर्भूता तद्वदयमपीत्यर्थः ॥ 5-144-10 अर्थकामेन हितकामेन ॥ 5-144-13 पश्ये पश्यामि । आर्षमात्मनेपदम् ॥ 5-144-24 आचरं तेन मन्त्रेण देवतावाहनाख्यं कार्यं कृतवती ॥ 5-144-29 उत्तरवाससि उत्तरीयवस्त्रच्छायायाम् ॥ 5-144-30 आपृष्ठतापादपराह्णपर्यन्तमित्यर्थः ॥