अध्यायः 143

कर्णेन कृष्णम्प्रति पृथिवीवीनाशे कशुनिदुश्शासनयोः स्वस्यच मूलत्वकथनम् । 1 ॥ तथा पार्थधार्तराष्ट्राणां जयपराजयसूचकनिमित्तोपवर्णनपूर्वकं कृष्णमालिङ्ग्य प्रतिनिवर्तनम् ॥ 2 ॥ सात्यकिनासह कृष्णस्य उपप्लाव्यागमनम् ॥ 3 ॥ वैशम्पायन उवाच । 001
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् । 001a
अब्रवीदभिसम्पूज्य कृष्णं तं मधुसूदनम् ॥ 001c
जानन्मां किं महाबाहो सम्मोहयितुमिच्छसि । 002a
योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ॥ 002c
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा । 003a
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥ 003c
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् । 004a
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥ 004c
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । 005a
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥ 005c
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन । 006a
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥ 006c
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे । 007a
शंसन्त इव वार्ष्णेय विविधा रोमहर्षणाः ॥ 007c
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः । 008a
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥ 008c
कृत्वा चाङ्गारको वक्रं ज्योष्ठायां मधुसूदन । 009a
अनुराधां प्रार्थयते मैत्रं सङ्गमयन्निव । 009c
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् । 010a
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥ 010c
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च । 011a
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥ 011a
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । 012a
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥ 012c
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम् । 013a
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥ 013c
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते । 014a
वाजिनां वारणानां च मनुष्याणां च केशव ॥ 014c
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन । 015a
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥ 015c
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते । 016a
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥ 016c
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव । 017a
वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम् ॥ 017c
मयूराः पुण्यशकुना हंससारसचातकाः । 018a
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥ 018c
गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः । 019a
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान् ॥ 019c
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः । 020a
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ 020c
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा । 020c
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥ 020c
मांसशोणितवर्षं च वृष्टं देवेन माधव । 020c
तथा गन्धर्वनगरं भानुमत्समुपस्थितम् ॥ 020c
सप्राकारं सपरिखं सवप्रं चारुतोरणम् । 020c
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ॥ 020c
उदयास्तमने सन्ध्ये वेदयन्ती महद्भयम् । 020c
शिवा च वाशते घोरं तत्पराभवलक्षणम् ॥ 020c
एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन । 020c
उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम् ॥ 020c
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः । 020c
सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥ 020c
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन । 027a
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥ 027c
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा । 028a
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन । 028c
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ॥ 028e
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव । 029a
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ॥ 029c
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः । 030a
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥ 031a
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः । 031c
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥ 032a
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला । 032c
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥ 033a
अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः । 033c
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥ 034a
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् । 034c
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः । 035a
गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम् ॥ 035c
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे । 036a
विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥ 036c
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः । 037a
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥ 037c
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः । 038a
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥ 038c
नकुलः सहदेवश्च सात्यकिश्च महारथः । 039a
शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ 039c
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् । 040a
त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः ॥ 040c
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन । 041a
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव ॥ 041a
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । 042a
रक्तोष्in:sent णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥ 042c
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ । 043a
मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो ॥ 043c
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन । 044a
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥ 044c
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् । 045a
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥ 045c
कृष्ण उवाच । 046
उपस्थितविनाशेयं नूनमद्य वसुन्धरा । 046a
यथा हि मे वचः कर्ण नोपैति हृदयं तव ॥ 046c
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते । 047a
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ 047c
कर्ण उवाच । 048
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात् । 048a
समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात् ॥ 048c
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् । 049a
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥ 049c
वैशम्पायन उवाच । 050
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् । 050a
विसर्जितः केशवेन रथोपस्थादवातरत् ॥ 050c
ततः स्वरथामस्थाय जाम्बूनदविभूषितम् । 051a
महात्मा वै निववृते राधेयो दीनमानसः ॥ 051c
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः । 052a
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥ ॥ 052c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिचत्वारिंशदधिकशततमोध्यायः ॥

5-143-21 उदपानाः कूपादयो जलाशयाः ॥ 5-143-23 गन्धर्वनगरं सप्राकारम् । परिघः परिवेषः । तत्राकाशे गन्धर्वनगरोपर्येव ॥ 5-143-24 शिवा श्रृगालः वाशते शब्दं करोति ॥ 5-143-30 सहस्रपादं सहस्रस्तम्भम् ॥ 5-143-32 तव पृथिवीति सम्बन्धः । त्वच्छरीरमित्यर्थः । परिक्षिप्ता परिवेष्टिता ॥ 5-143-46 तव हृदयं कर्तृ मम वचो नोपैति नाङ्गीकरोति ॥