अध्यायः 142
कृष्णेन कर्णम्प्रति पाण्डवजयनिर्धारणकथनपूर्वकं भीष्णादिषु युद्धसन्नाहसन्देशकथनचोदना ॥ 1 ॥
वैशम्पायन उवाच । 001
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा । 001c
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ॥ 001c
श्रीभगवानुवाच । 002
अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् । 002c
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥ 002c
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र । 003c
जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः ॥ 003c
दिव्या माया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशाः । 004c
दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि ॥ 004c
न सञ्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः । 005c
श्रीमान्ध्वजः कर्ण धनञ्जयस्य समुच्छ्रितः पावकतुल्यरूपः ॥ 005c
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् । 006c
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ॥ 006c
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः । 007c
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 007c
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् । 008c
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥ 008c
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् । 009c
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 009c
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् । 010c
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥ 010c
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् । 011c
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 011c
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् । 012c
सुयोधनञ्च राजानं सैन्धवं च जयद्रथम् ॥ 012c
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना । 013c
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 013c
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ । 014c
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥ 014c
विगाढे शस्त्रसम्पाते परवीररथारुजौ । 015c
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 015c
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् । 016a
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥ 016c
सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः । 017c
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥ 017c
सप्तमाच्चापि दिवसादमावास्या भविष्यति । 018c
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ॥ 018c
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः । 019c
यद्वो मनीषितं तद्वै सर्वं सम्पादयाम्यहम् ॥ 019c
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । 020c
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥ 020c
5-142-4 भौमनेन विश्वकर्मणा ॥ 5-142-18 सङ्ग्रामः सङ्ग्रामसाधनकलापः । युज्यतां एकीभूयावतिष्ठताम् ॥