अध्यायः 141

कर्णेन कृष्णम्प्रति स्वस्य पाण्डवपक्षप्रवेशे सयुक्तिकं प्रतिबन्धकनिरूपणपूर्वकं स्वरहस्यगोपनप्रार्थनादि ॥ 1 ॥ कर्ण उवाच । 001
असंशयं सौहृदान्मे प्रणयाच्चाथ केशव । 001a
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥ 001c
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । 002a
निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥ 002c
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । 003a
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥ 003c
सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोस्मि धर्मतः । 004a
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥ 004c
सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान् । 005a
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥ 005c
मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् । 006a
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥ 006c
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । 007a
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥ 007c
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । 008a
पितरं चाभिजानामि तमहं सौहृदात्सदा ॥ 008c
स हि मे जातकर्मादि कारयामास माधव । 009a
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥ 009c
नाम वै वसुषेणेति कारयामास वै द्विजैः । 010a
भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात् ॥ 010c
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । 011a
तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ॥ 011c
न पृथिव्या सकलया न सुवर्णस्य राशिभिः । 012a
हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे ॥ 012c
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । 013a
मया त्रयोदशसमा भुक्तं राज्यमकण्टकम् ॥ 013c
इष्टं च बहुभिर्यज्ञैः सहसूतैर्मयाऽसकृत् । 014a
आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः ॥ 014c
मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः । 015a
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥ 015c
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । 016a
वृतवान्परमं कृष्ण प्रतीपं सव्यसाचिनः ॥ 016c
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । 017a
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ 017c
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । 018a
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥ 018c
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । 019a
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥ 019c
मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन । 020a
एतदत्र हितं मन्ये सर्वं यादवनन्दन ॥ 020c
यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः । 021a
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥ 021c
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । 022a
स्फीतं दुर्योधनायैव सम्प्रदद्यामरिन्दम ॥ 022c
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । 023a
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥ 023c
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । 024a
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥ 024c
धृष्टद्युन्मश्च पाञ्चल्यः सात्यकिश्च महारथः । 025a
उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः ॥ 025c
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः । 026a
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा । 026c
इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः ॥ 026e
मातुलो भीमसेनस्य श्येनजिच्च महारथः । 027a
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥ 027c
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः । 028a
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥ 028c
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति । 029a
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ 029c
आध्वर्यवं च ते कृष्ण ऋतावस्मिन्भविष्यति । 030a
होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः ॥ 030c
गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति । 031a
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव । 031c
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥ 031e
अनुयातश्च पितरमधिको वा पराक्रमे । 032a
गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति ॥ 032c
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः । 033a
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥ 033c
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । 034a
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥ 034c
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन । 035a
उत्कृष्टः सिंहनादश्च सुब्रह्मण्यो भविष्यति ॥ 035c
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ । 036a
शामित्रं तौ महावीर्यौ सम्यक् तत्र भविष्यतः । 036c
'तौ मैत्रावरुणाग्नीध्रौ महावीर्यौ भविष्यतः ॥' 036e
कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः । 037a
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥ 037c
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । 038a
तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥ 038c
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च । 039a
हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति ॥ 039c
इध्माः परिधयश्चैव शक्तयो विमला गदाः । 040a
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ 040c
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । 041a
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥ 041c
प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति । |||| 042a
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥ 042c
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । 043a
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥ 043c
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । 044a
वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात् ॥ 044c
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् । 045a
प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा ॥ 045c
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । 046a
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥ 046c
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । 047a
आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति ॥ 047c
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः । 048a
तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥ 048c
दुर्योधनं यदा हन्ता भीमसेनो महाबलः । 049a
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥ 049c
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः । 050a
हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव ॥ 050c
रुदन्त्यः सहगान्धार्या श्वगृध्रकुरराकुले । 051a
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥ 051c
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ । 052a
वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥ 052c
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् । 053a
करुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥ 053c
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् । 054a
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥ 054c
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन । 055a
तावत्कीर्तिभवः शब्दः शाश्वतोयं भविष्यति ॥ 055c
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् । 056a
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम् ॥ 056c
समुपानय कौन्तेयं युद्धाय मम केशव । 057a
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥ ॥ 057c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥

5-141-4 यथा न कुलजस्तथेति कo पाठः ॥ 5-141-14 आवाहाः कुलधर्माः ॥ 5-141-15 मां च । मित्रमिति शेषः ॥ 5-141-19 ब्रूयास्त्वं पाण्डवान्प्रतीति शेषः ॥ 5-141-20 नियमं गोपनम् ॥ 5-141-28 समुदानयः समुदायीकरणम् ॥ 5-141-41 परिस्तोमाः सोमचमसादयः ॥ 5-141-42 प्रतिप्रस्थाताऽध्वर्योस्तव द्वितीयः तस्य कर्म प्रतिप्रास्थानिकम् ॥ 5-141-43 अतिरात्रे ऋतौ । श्लेषेण निशीथेच । घटोत्कचः रात्रिचरत्वात् शामित्रं करिष्यति ॥ 5-141-46 पुनश्चितिर्यज्ञानन्तरं चयनारम्भो यज्ञविशेषेषूक्तः ॥ 5-141-47 आनर्दंं महानादं नर्दतः । णमुलन्तं पूर्वपदम् । सूयं सोमाभिषवः । सुत्या भविष्यतीति कo पाठः ॥ 5-141-48 यज्ञावसानं यज्ञस्य मध्येमध्ये विरम्यावस्थानम् ॥