अध्यायः 140

कृष्णेन कर्णः किमुक्त इति जनमेजयप्रश्नः ॥ 1 ॥ कृष्णेन कर्णम्प्रति तस्य कुन्तीसुतत्वरूपरहस्यकथनपूर्वकं पाण्डवपक्षप्रवेशचोदना ॥ 2 ॥ जनमेजय उवाच । 001
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम । 001a
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥ 001c
किमब्रवीद्रथोपस्थे राधेयं परवीरहा । 002a
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥ 002c
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् । 003a
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः ॥ 003c
वैशम्पायन उवाच । 004
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च । 004a
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ 004c
हृदयग्रहणीयानि राधेयं मधुसूदनः । 005a
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत ॥ 005c
वासुदेव उवाच । 006
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः । 006a
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥ 006c
त्वमेव कर्ण जानासि वेदवादान्सनातनान् । 007a
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ 007c
कानीनश्च सहोढश्च कन्यायां यश्च जायते । 008a
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥ 008c
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः । 009a
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥ 009c
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः । 010a
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥ 010c
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः । 011a
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥ 011c
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः । 012a
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥ 012c
राजानो राजपुत्राश्च पाण्डवार्थे समागताः । 013a
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ 013c
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा । 014a
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ 014c
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् । 015a
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ॥ 015c
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः । 016a
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ॥ 016c
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः । 017a
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ॥ 017c
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा । 018a
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ॥ 018c
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः । 019a
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः । 019c
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः । 020a
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ॥ 020c
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि । 021a
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ॥ 021c
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति । 022a
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ॥ 022c
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये । 023a
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः । 023c
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः । 024a
दाशार्हाः परिवारास्ते दाशार्णाश्च विशाम्पते ॥ 024c
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः । 025a
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥ 025c
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः । 026a
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥ 026c
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः । 027a
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥ 027c
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः । 028a
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥ 028c
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा । 029a
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥ ॥ 029c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥

5-140-8 यश्च यस्तु कन्यायां जायते स द्विविधः कानीनः सहोढश्च । सहोढः विवाहादूर्ध्वं जातः । अन्यो विवाहात्प्राग्जातः । तन्मातुर्वोढारं तस्य पितरं प्राहुः ॥