अध्यायः 139
दुर्योधनेन स्वमतानभिनन्दने भीष्मद्रोणाभ्यां पार्थेनसह युद्धकरणे परिशोचनम् ॥ 1 ॥ द्रोणेन दुर्योधनम्प्रति पाण्डवानां साधनसमृद्धिमत्तया दुर्जयत्वाभिधानपूर्वकं पुनःशमविधानम् ॥ 2 ॥
वैशम्पायन उवाच । 001
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः । 001a
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ॥ 001c
तं वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात् । 002a
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥ 002c
भीष्म उवाच । 003
शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् । 003a
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥ 003c
द्रोण उवाच । 004
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये । 004a
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे ॥ 004c
तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् । 005a
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम् ॥ 005c
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः । 006a
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥ 006c
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः । 007a
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥ 007c
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति । 008a
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥ 008c
मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये । 009a
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥ 009c
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च । 010a
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे ॥ 010c
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि । 011a
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥ 011c
वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे । 012a
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥ 012c
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् । 013a
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति ॥ 013c
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः । 014a
तमैलविलमासाद्य धर्मराजो व्यराजत ॥ 014c
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च । 015a
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥ 015c
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः । 016a
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥ 016c
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च । 017a
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥ 017c
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी । 018a
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम् ॥ 018c
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः । 019a
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम् ॥ 019c
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः । 020a
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥ 020c
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता । 021a
सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे ॥ 021c
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये । 022a
मा गमः सतुतामात्यःसमित्रश्च यमक्षयम् ॥ ॥ 022c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥
5-139-9 एते पाण्डवास्त्वया मिथ्योपचारिता अपि अनु पश्चात्प्रिये वर्तमाना हि प्रसिद्धम् । तव तु दोषाः द्वेषादयः । अहितत्वाय वैरभावाय कल्पन्ते ॥ 5-139-11 उष्णगे उष्णातिगमे वर्षकाले ॥ 5-139-12 वासुदेवो यथा हि त्वां प्रवृण्वानो न मन्यते इति खo डo पाठः । वासमेव यथाहि त्वं इति घo टo पाठः । वासवेयं यथा इति कo पाठः ॥ 5-139-14 ऐलविलं कुबेरम् । आसाद्य रणे प्राप्य ॥