अध्यायः 138

भीष्मद्रोणाभ्यां कुन्तीवाक्यं श्रुत्वा समीपस्थं दुर्योधनं प्रति पाण्डवानां कुन्तीनिदेशानतिलङ्घित्वकथनपूर्वकं पाण्डवैः सह सन्धिविधानम् ॥ 1 ॥ वैशम्पायन उवाच । 001
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ । 001a
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ 001c
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य सन्निधौ । 002a
वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम् ॥ 002c
तत्करिष्यन्ति कौन्तेया वासुदेवस्य सम्मतम् । 003a
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥ 003c
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा । 004a
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥ 004c
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम् । 005a
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ॥ 005c
नकुलं सहदेवं च बलवीर्यसमन्वितौ । 006a
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥ 006c
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता । 007a
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥ 007c
दानवा घोरकर्माणो निवातकवचा युधि । 008a
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना ॥ 008c
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी । 009a
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥ 009c
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः । 010a
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥ 010c
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः । 011a
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥ 011c
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः । 012a
प्रशान्तभ्रुकुटिः श्रीमान्कृता शान्तिःकुलस्य नः ॥ 012c
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् । 013a
अभिवादय राजानं यथापूर्वमरिन्दम ॥ 013c
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः । 014a
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥ 014c
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः । 015a
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥ 015c
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः । 016a
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ॥ 016c
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि । 017a
तौ च त्वां गुरुवत्प्रोम्णा पूजया प्रत्युदीयताम् ॥ 017c
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः । 018a
सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव ॥ 018c
प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह । 019a
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥ 019c
अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् । 020a
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥ 020c
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः । 021a
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥ 021c
विशेषत इहास्माकं निमित्तानि विनाशने । 022a
उल्काभिर्हि प्रदीप्ताभिर्बाध्यते पृतना तव ॥ 022c
वाहनान्यप्रहृष्टानि रुदन्तीव विशाम्पते । 023a
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ 023c
नगरं न यथापूर्वं तथा राजनिवेशनम् । 024a
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशं ॥ 024c
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् । 025a
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥ 025c
न चेत्करिष्यसि वचः सुहृदामरिकर्शन । 026a
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥ 026c
भीमस्य च महानादं नदतः शुष्मिणो रणे । 027a
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःश्वनम् । 027c
यद्येतदपसव्यं ते वचो मम भविष्यति ॥ ॥ 027e

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥

5-138-10 प्रशाम्य प्रशमं कुरु ॥ 5-138-20 वारणं प्रतिषेधम् ॥ 5-138-24 दीप्तां दिशमिति दिग्दाहाख्य उत्पात उक्तः ॥ 5-138-27 शुष्मिणः बलिनः । अपसव्यं विपरीतम् ॥