अध्यायः 137
कुन्त्या श्रीकृष्णे अर्जुनादीन्प्रति वक्तव्यसन्देशकथनम् ॥ 1 ॥ श्रीकृष्णस्य स्वरथमारोपितेन कर्णेन सह सम्भाषणपूर्वकमुपप्लाव्यं प्रत्यागमनम् ॥ 2 ॥
कुन्त्युवाच । 001
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके । 001a
उपोपविष्टा नारीभिराश्रमे परिवारिता ॥ 001c
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा । 002a
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः । 002c
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् । 003a
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥ 003c
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् । 004a
हत्वा कुरूंश्च सङ्ग्रामे वासुदेवसहायवान् ॥ 004c
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति । 005a
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥ 005c
स सत्यसन्धो बीभत्सुः सव्यसाची यथाच्युत । 006a
तथा त्वमेव जानासि बलवन्तं दुरासदम् ॥ 006c
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत । 007a
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ॥ 007c
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि । 008a
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ॥ 008c
नमो धर्माय महते धर्मो धारयति प्रजाः । 009a
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ॥ 009c
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः । 010a
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ 010c
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति । 011a
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥ 011c
तावदेव महाबाहुर्निशासु न सुखं लभेत् । 012a
सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः । 012c
ब्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम् ॥ 012e
युक्तमेतन्महाभागे कुले जाते यशस्विनि । 013a
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥ 013c
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ । 014a
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ 014c
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः । 015a
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ 015c
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम् । 016a
पाञ्चाली परुषाण्युक्तका को नु तत्क्षन्तुमर्हति ॥ 016c
न राज्यहरणं दुःखं द्यूते चापि पराजयः । 017a
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥ 017c
यत्र सा बृहती श्यामा सभायां रुदती तदा । 018a
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं महत् ॥ 018c
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा । 019a
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ 019c
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् । 020a
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥ 020c
विदितं हि तवात्यन्तं क्रूद्धाविव यमान्तकौ । 021a
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ 021c
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता । 022a
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ॥ 022c
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः । 023a
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ॥ 023c
मां वै कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन । 024a
अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ॥ 024c
वैशम्पायन उवाच । 025
अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम् । 025a
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥ 025c
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् । 026a
आरोप्याथ रथे कर्णं प्रायात्सात्यकिना सह ॥ 026c
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः । 027a
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥ 027c
प्रमूढा पृथिवी सर्वा मृत्युपाशवशीकृता । 028a
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥ 028c
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः । 029a
मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥ 029c
विसर्जयित्वा राधेयं सर्वयादवनन्दनः । 030a
ततो जवेन महता तूर्णमश्वानचोदयत् ॥ 030c
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः । 031a
हया जग्मुर्महावेगा मनोमारुतरंहसः ॥ 031c
ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः । 032a
उच्चैर्जग्मुरुपप्लाव्यं शार्ङ्गधन्वानमावहन् ॥ ॥ 032c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥
5-137-3 उद्वर्तयिष्यति आकुलीकरिष्यति । लोकं शत्रुजनम् ॥ 5-137-5 मेधान् अश्वमेधान् ॥ 5-137-16 धर्मोपचायिनां धर्मवर्धनशीलानाम् ॥ 5-137-20 पदवीं चर मार्गमनुसर ॥ 5-137-28 नैतदस्ति । राष्ट्रमिति शेषः ॥ 5-137-29 निर्याय निर्गत्य ॥ 5-137-32 उपप्लाव्यं विराटनगरम् ॥