अध्यायः 136

विदुलोपाख्यानोपसंहारः ॥ 1 ॥ विदुलोपाख्यानश्रवणफलकथनम् ॥ 2 ॥ मातोवाच । 001
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि । 001a
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥ 001c
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते । 002a
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ॥ 002c
शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः । 003a
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥ 003c
य एवात्यन्तसुहृदस्त एनं पर्युपासते । 004a
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ॥ 004c
शोचन्तमनुशोचन्ति पतितानिव बान्धवान् । 005a
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ॥ 005c
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः । 006a
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥ 006c
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव । 007a
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ॥ 007c
यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् । 008a
कृत्वा सौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय ॥ 008c
अस्ति नः कोशनिचयो महानविदितस्तव । 009a
तमहं वेद नान्यस्तमुपसम्पादयामि ते ॥ 009ca
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय । 010a
सुखदुःखसहा वीर सङ्ग्रामादनिवर्तिनः ॥ 010c
तादृशा हि सहाया वै पुरुषस्य बुभूषतः । 011a
इष्टं जिहीर्षतः किञ्चित्सचिवाः शत्रुकर्शन ॥ 011c
तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः । 012a
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ॥ 012c
पुत्र उवाच । 013
उदके नौरियं धार्या वक्तव्यं प्रवणे मया । 013a
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥ 013c
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् । 014a
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥ 014c
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् । 015a
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च ॥ 015c
कुन्त्युवाच । 016
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः । 016a
तच्चकार तथा सर्वं यथावदनुशासनम् ॥ 016c
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् । 017a
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥ 017c
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । 018a
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥ 018c
इदं पुंसवनं चैव वीराजननमेव च । 019a
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥ 019c
विद्याशूरं तपःशूरं दानशूरं तपस्विनम् । 020a
ब्राह्म्या श्रिया दीप्यमानं साधुवादे च सम्मतम् ॥ 020c
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् । 021a
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ 021c
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् । 022a
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥ ॥ 022c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥

5-136-1 दरो भयम् ॥ 5-136-4 इला धेनवः ॥ 5-136-10 शतार्हा अनिवर्तिन इति कo खo पाठः । शतार्हाः शतवेतनयोग्या इति रत्नगर्भः ॥ 5-136-12 स्वल्पचेतसोपि तस्य तमोपागमदिति सम्बन्धः ॥ 5-136-13 उदके भूरियं धार्या मर्तव्यं प्रवणे मया इति झo पाठः । तत्रायमर्थः । उदके मज्जन्तीव भूः पित्र्यं राज्यं ।(धूरिति पाठेपि स एवार्थः) इयं मया धार्या मग्नं राज्यं वा उद्धर्तव्यम् । प्रवणे प्रपाते वा युद्धाख्ये वा मर्तव्यं नतु एवमेव निर्व्यापारेण स्थेयम् । नेत्री शिक्षयित्री । उदके सूर्यवद्यस्मिन्सक्तव्यं प्रवणे मया इति डo पाठः ॥ 5-136-14 अपरापरं उत्तरोत्तरम् । प्रतिवदन् प्रतिकूलं वदन् ॥ 5-136-15 बान्धवात् बन्धुतः । उद्यच्छामि उद्यमं करोमि । नियमार्थं निग्रहार्थम् ॥ 5-136-19 पुंसवनं पुत्रप्रसवकरम् ॥