अध्यायः 135

कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥ पुत्र उवाच । 001
कृष्णायसस्येव च ते संहत्य हृदयं कृतम् । 001a
मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे ॥ 001c
अहो क्षत्रसमाचारो यत्र मामितरं यथा । 002a
नियोजयसि युद्धाय परमातेव मां तथा ॥ 002c
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् । 003a
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया ॥ 003c
किमाभरणकृत्येन किं भोगैर्जीवितेन वा । 004a
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः ॥ 004c
मातोवाच । 005
सर्वावस्था हि विदुषां तात धर्मार्थकारणात् । 005a
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् ॥ 005c
स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः । 006a
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ॥ 006c
असम्भावितरूपस्त्वमानृशंस्यं करिष्यसि । 007a
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय ॥ 007c
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् । 008a
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् ॥ 008c
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः । 009a
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः ॥ 009c
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन । 010a
दैवमानुषयुक्तेन सद्भिराचरितेन च ॥ 010c
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा । 010c
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया ॥ 010c
रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम् । 010c
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च ॥ 011a
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः । 011c
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च । 012a
'क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥' 012c
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् । 013a
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् । 013c
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते ॥ 014a
मन्युना दह्यमानेह पुरुषेण मनस्विना । 014c
निकृतेनेह बहुशः शत्रून्प्रति जिगीषया ॥ 015a
आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च । 015c
प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय । 016a
अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ॥ 016c
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति । 017a
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ॥ 017c
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् । 018a
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ॥ 018c
पुत्र उवाच । 019
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः । 019a
कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत् ॥ 019c
मातोवाच । 020
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि । 020a
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ॥ 020c
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् । 021a
अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते ॥ 021c
पुत्र उवाच । 022
अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम । 022a
इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम् ॥ 022c
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः । 023a
ईदृशं भवती कञ्चिदुपायमनुपश्यति ॥ 023c
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते । 024a
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ 024c
मातोवाच । 025
पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः । 025a
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे । 025c
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः ॥ 025e
सर्वेषां कर्मणां तात फले नित्यमनित्यता । 026a
अनित्यमिति जानन्तो न भवन्ति भवन्ति च ॥ 026c
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते । 027a
ऐकगुण्यमनीहायामभावः कर्मणां फलम् ॥ 027c
अथ द्वैगुण्यमीहायां फलं भवति वा नवा । 028a
यस्य प्रागेव विदिता सर्वार्थानामनित्यता ॥ 028c
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज । 029a
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ॥ 029c
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः । 030a
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह ॥ 030c
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक । 031a
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ॥ 031c
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च । 032a
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ॥ 032c
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि । 033a
क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान् ॥ 033c
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय । 034a
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् । 034c
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ॥ 034e
तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः । 035a
ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम् ॥ 035c
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् । 036a
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव ॥ 036c
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि । || 037a
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ॥ 037c
निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति । 038a
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ 038c
स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः । 039a
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम् ॥ 039c
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति । 040a
स न सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ॥ ॥ 040c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥

5-135-1 कृष्णायसस्य लोहस्य । संहत्य णिण्डीकृत्य ॥ 5-135-3 एकजं अभ्रातृकम् ॥ 5-135-5 सर्वावस्था गार्हस्थ्यादिरूपा । तावेव धर्मार्थावेव । अचूचुदं प्रेरितवत्यस्मि ॥ 5-135-6 समीक्ष्य क्रमोपेतः द्रष्टुं योग्येन पराक्रमेण युक्तः । अस्मिन्काले चेत् कार्यं कर्तव्यं युद्धं न प्रतिपद्यसे ॥ 5-135-7 आनृशंस्यं शत्रुषु स्वदेहे वा दयाङ्करिष्यसि तर्हि त्वं असम्भावितरूपस्तिरस्कृतरूपो भविष्यसीति सम्बन्धः ॥ 5-135-8 खरीति । उभयलोकानुपयुक्तेपि पुत्रे वृथा वात्सल्यं खरी करोति तद्वदहमपि स्यामित्यर्थः ॥ 5-135-10 धर्मार्थेति । त्वया भाव्यमिति शेषः ॥ 5-135-15 प्रस्थातव्यमेवेति शेषः ॥ 5-135-17 स्वल्पमैश्वर्यं अप्रियमनिष्टं इच्छति मन्यते प्राज्ञः । यस्य तु अल्पमेवैश्वर्यं प्रियं तस्य ध्रुवं निश्चितं तदेवाल्पं प्रियत्वेन गृहीतं अप्रियमनर्थकरं स्यात् । तेन राज्ञाऽल्पसन्तुष्टेन न भवितव्यमित्यर्थः ॥ 5-135-18 अभावं नाशम् ॥ 5-135-19 पश्य हितत्वेनेति शेषः ॥ 5-135-20 अतो वचनात् मे मम भूयसी नन्दिः समृद्धिः भवितेति शेषः । यत् एवं कारुण्यं देहे कृपां अनुपश्यसि हितत्वेन । एवंसत्यपि त्वमेव चोद्यं पूर्वपक्षं चोदयसि प्रेरयसि कारुण्यं कुर्विति । अथापि वज्रहृदयाहं ते तुभ्यं चोदयामि ॥ 5-135-21 सैन्धवान् हत्वा कृच्छ्रेण भाविनं ते तव विजयं यदा पश्यामि द्रक्ष्यामि अथ त्वां पूजयिष्यामीति योजना ॥ 5-135-22 एतां अवस्थां दारुणामात्मनि आत्मना स्वयं विदित्वा । मे मम भावश्चित्तं राज्यान्निवृत्त इत्युत्तरेण सम्बन्धः ॥ 5-135-29 वृद्धिः पीडा । वृधु हिंसायामित्यस्य रूपम् । समृद्धिरैश्वर्यम् । आत्मनः पीडां परस्यैर्श्वं च नुदेदित्यर्थः ॥ 5-135-35 तेषां क्रुद्धादीनां अग्रप्रदायी । भक्तं वेतनं च सर्वेभ्यः प्रथमं देयम् । न- चेत्सद्यः कुपितास्ते त्यजेयुरित्यर्थः ॥ 5-135-36 एनं निर्वादैः परिनिष्ठितैर्दूतैर्निर्वदेत् परिनिष्ठां प्रापयेत् । साम्ना दानेन वा तं पर्यवस्थापयेदित्यर्थः । अन्ततः फलतः तत् शर्त्रार्वशीकरणं भविष्यति ॥ 5-135-37 तत्रोपायमाह निर्वादादिति । एवं परिनिष्ठिततया आस्पदं स्थानं प्राप्तं चेत् शत्रुणाऽनुपद्रुतस्य धनवृद्ध्यादिकं सर्वं सेत्स्यतीत्यर्थः ॥