अध्यायः 134

कुन्त्या विदुलोपाख्यानकथनम् ॥ 1 ॥ विदुलोवाच । 001a
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि । 001a
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥ 001c
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात् । 002a
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥ 002c
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । 003a
नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥ 003c
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः । 004a
दौर्बल्यादासते मूढा व्यसनौघपतीक्षिणः ॥ 004c
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः । 005a
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥ 005c
तैः कृत्वा सह सङ्घातं गिरिदुर्गालयं चर । 006a
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥ 006c
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि । 007a
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥ 007c
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् । 008a
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥ 008c
तस्य स्मरन्ती वचनमाशंसे विजयं तव । 009a
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः ॥ 009c
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे । 010a
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥ 010c
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय । 011a
एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः ॥ 011c
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् । 012a
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ 012c
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् । 013a
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥ 013c
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता । 014a
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ 014c
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् । 015a
पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम् ॥ 015c
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् । 016a
न तदा जीवितेनार्थो भविता तव सञ्जय ॥ 016c
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् । 017a
अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥ 017c
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा । 018a
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥ 018c
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम । 019a
न ह्ययं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥ 019c
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च । 020a
अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥ 020c
अपारे भव नः पारमप्लवे भव नः प्लवः । 021a
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ॥ 021c
सर्वे ते शत्रवः शक्या न चेज्जीवितुमर्हसि । 022a
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥ 022c
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् । 023a
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥ 023c
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत । 024a
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥ 0240c
नाम विश्राव्य वै सङ्ख्ये शत्रूनाहूय दंशितान् । 025a
सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम् ॥ 025c
यदैव लभते वीरः सुयुद्धेन महद्यशः । 026a
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥ 026c
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः । 027a
अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः ॥ 027c
राज्यं चाप्युग्रविभ्रंशं संशयो जीवितस्य वा । 028a
न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥ 028c
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् । 029a
रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु ॥ 029c
जहि शत्रून्रणे राजन्स्वधर्मनुपालय । 030a
मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम् ॥ 030c
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् । 031a
अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम् ॥ 031c
हृष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा । 032a
मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥ 032c
युवा रूपेण सम्पन्नो विद्ययाभिजनेन च । 033a
यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥ 033c
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत् । 034a
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ॥ 034c
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे । 035a
नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः । 035c
न त्वं परस्यानुचरस्तात जीवितुमर्हसि । 036a
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ॥ 036c
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि । 037a
शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम् ॥ 037c
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् । 038a
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥ 038c
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । 039a
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ 039c
मातङ्गो मत्त इव च परीयात्स महामनाः । 040a
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥ 040c
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः । 041a
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ॥ 041c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ।

5-134-11 पूर्वेषां मम च युद्धे समृद्धिरसमृद्धिर्वाऽवश्यम्भाविनीत्येव विद्वान् युद्धमना भव लाभालाभौ समौ कृत्वा युध्यस्त्वेति भावः । माप्रत्युपाहरः प्रत्युपहारं युद्धोपसंहारं माकार्षीरित्यर्थः ॥ 5-134-18 कृत्यं कर्तव्यं पराक्रमम् ॥ 5-134-20 श्रोतारः पराज्ञायाः ॥ 5-134-22 शक्याः जेतुमिति शेषः ॥ 5-134-23 निर्विण्णात्मा विरक्तचित्तः । यतो हतमना नष्टसङ्कल्पः । विश्रुतिं ख्यातिम् ॥ 5-134-24 ग्रहं सोमपात्रम् । प्रग्रहमिति पाठे नियमनं नियन्तृत्वमित्यर्थः ॥ 5-134-27 कापुरुषाः जनाः रणे आत्मानं देहं त्यक्त्वा रणे दक्षं शूरं समृद्धिभिस्तर्पयन्तिस्मेति सम्बन्धः ॥ 5-134-28 उग्रविभ्रंशं महाप्रपातम् । जीवितस्य संशयो मरणम् । लब्धस्य जितस्य । शेषं पुनः स्वल्पेन विभवेनावस्थापनम् ॥ 5-134-29 रुद्धं ग्रस्तं मत्वा एकायनं स्वर्गराज्ययोर्मध्ये एकं मार्गं पत गच्छ ॥ 5-134-30 शत्रूणां भयवर्धनं भयच्छेदनम् । अनुग्रत्वात् सुकृपणं दीनं त्वा त्वां मा दृशं माद्राक्षम् ॥ 5-134-32 हृष्य हर्षं प्राप्नुहि । सौवीरकन्याभिः स्वदारैः । माचेति । सैन्धवकन्यानां शत्रुदेशजकन्यानाम् ॥ 5-134-33 विकुर्वीत अपसरणं कुर्वीत ॥ 5-134-34 अधुर्यवत् अदान्तवृषभवत् । तत् विकारकरणम् ॥ 5-134-36 वेद वेद्मि । परिशाश्वतं सर्वथैवैकरूपम् । अक्षीणमित्यर्थः ॥ 5-134-37 अव्ययं अपक्षयहीनं क्षत्रहृदयं प्रोक्तमिति पूर्वेण सम्बन्धः ॥ 5-134-38 आजातः सम्यग्जातः कुले जात इत्यर्थः । य आजातः स भयात्कस्यचिन्न नमेत् । वृत्तिसमीक्षो वृत्तिं समीक्षमाणो वा न नमेत् ॥ 5-134-40 परीयात् पर्यटनं कुर्यात् ॥ 5-134-41 दुष्कृतः पापिष्टान् ॥