अध्यायः 133

कुन्त्या युधिष्ठिरबोधनाय कृष्णम्प्रति विदुलोपाख्यानकथनम् ॥ 1 ॥ कुन्त्युवाच । 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
विदुलायाश्च संवादं पुत्रस्य च परन्तप ॥ 001c
ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि । 002a
यशस्विनी मन्युमती कुले जाता विभावरी ॥ 002c
क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी । 003a
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ॥ 003c
विदुला नाम राजन्या जगर्हे पुत्रमौरसम् । 004a
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ॥ 004c
विदुलोवाच । 005
अनन्दन मया जात द्विषतां हर्षवर्धन । 005a
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि ॥ 005c
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः । 006a
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ॥ 006c
माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः । 007a
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ॥ 007c
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः । 008a
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ॥ 008c
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः । 009a
सुसन्तोषः कापुरुषः स्वल्पकेनैव तुष्यति ॥ 009c
अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज । 010a
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ॥ 010c
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् । 011a
विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ॥ 011c
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा । 012a
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ॥ 012c
माऽस्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा । 013a
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥ 013c
अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल । 014a
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ॥ ||| 014c
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् । 015a
मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः ॥ 015c
कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् । 016a
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ॥ 016c
अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः । 017a
आनन्तर्यं चारभते न प्राणानां धनायते ॥ 017c
उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् । 018a
धर्मं पुत्राग्रतः कृत्वा किन्निमित्तं हि जीवसि ॥ 018c
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता । 019a
विच्छिन्नं भोगमूलं ते किन्निमित्तं हि जीवसि ॥ 019c
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता । 020a
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन ॥ 020c
उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् । 021a
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः । 021c
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि । 022a
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ॥ 022c
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् । 023a
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ॥ 023c
विद्यायामर्थलाभे वा मातुरुच्चार एव सः । 024a
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ॥ 024c
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् । 025a
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ॥ 025c
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् । 026a
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ॥ 026c
लोकस्य समवज्ञातं निहीनासनवाससम् । 027a
अहोलाभकरं हीनमल्पजीवनमल्पकम् ॥ 027c
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते । 028a
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ॥ 028c
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः । 029a
अवल्गुकारिण सत्सु कुलवंशस्य नाशनम् ॥ 029c
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् । 030a
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ॥ 030c
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम् । 031a
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ॥ 031c
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् । 032a
एतावानेव पुरुषो यदमर्षी यदक्षमी ॥ 032c
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् । 033a
सन्तोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ॥ 033c
अनुत्थानभये चोभे निरीहो नाश्नुते महत् । 034a
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ॥ 034c
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् । 035a
परं विषहते यस्मात्तस्मात्पुरुष उच्यते ॥ 035c
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति । 036a
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः ॥ 036c
दिष्टभावं गतस्यापि विषये मोदते प्रजा । 037ac
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् ॥ 037c
अमात्यानामथो हर्षमादधात्यचिरेण सः ॥ 038a
पुत्र उवाच । 039
किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया । 039a
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा । 039c
मातोवाच । 040
040a 'पैरर्विहन्यमानस्य जीवितेनापि किं फलम् । 040c 'निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः । ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ॥ 040e
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् । 041a
कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः ॥ 041c
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा । 042a
पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ॥ 042c
यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय । 043a
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ॥ 043c
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् । 044a
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ॥ 044c
स्वबाहुबलमाश्रित्य योहि जीवति मानवः । 045a
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ॥ ॥ 045c

इति श्रीमन्माभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥

5-133-2 मन्युमती दैन्यवती । विभावरी कुपिता । विभावरी रजन्यां च वक्रयोषितीति विश्वः ॥ 5-133-5 अनन्दन कुपुत्र । कुत्सार्थेऽत्र नञ् । 5-133-6 क्लीबे निर्वीर्यै साधनं बाह्वादिकं यस्य स तथा ॥ 5-133-7 मा वीभरः मा पालय । प्रतिसंहर भयमिति शेषः ॥ 5-133-10 पराक्रमेः पराक्रमं कुरु ॥ 5-133-11 विवदन् शत्रुजयार्थं अनेकान् पक्षानुद्भावयन्वा तूष्णीम्भूतोऽरेश्छिद्रं पश्येः । यथा व्योम्नि अपरिशङ्कितः शत्रोराधिक्याद्भयमपश्यन् श्येनस्तद्वत् ॥ 5-133-13 विश्रूयस्व ख्यातो भव । सामभेदौ जघन्यमध्यमौ । दानमधमो नीच उपायः । दण्डस्तूत्तमः । तत्राद्यत्रयकर्ता माभूः किन्तु गर्जितो दण्डयितैव भवेत्यर्थः । ऊर्जित इति वा पाठः ॥ 5-133-15 कस्यचिद्राज्ञो गेहे स्वरी गर्दभीव मृदुः अकिञ्चित्करः जायत इति जनिः पुत्रो माभूत् ॥ 5-133-16 आजिं सङ्ग्रामम् ॥ 5-133-17 प्राणानां प्राणाः बलं तत्साध्यानां कार्याणाम् । आनन्तर्यं अविच्छेदेन कार्यधारामारभते । न धनायते धनं आत्मनो नेच्छति । तृष्णां त्यजतीत्यर्थः ॥ 5-133-18 ध्रुवां गतिं मरणम् । अग्रत इत्युपहासः । पृष्ठतः कृत्वेत्यर्थः ॥ 5-133-20 निमज्जता प्रपतिष्यता च शत्रुर्जङ्घायां ग्राह्यः । तेनैव सह निमज्जेत्पतेद्वेत्यर्थः । न विषीदेत् निरुद्यमो न भवेत् ॥ 5-133-21 आजानेयाः जात्यश्वाः तेषां कृतं कर्म युद्धेऽनवसादरूपं ॥ 5-133-22 त्वत्कृते मग्नमिति सम्बन्धः । 5-133-23 राशिवर्धनः सङ्ख्यापूरको नतु प्रयोजनान्तरार्हः ॥ 5-133-24 मातुः उच्चारो विष्ठा ॥ 5-133-26 यं एन अमित्रा अभिनन्देयुः तं बन्धुं बान्धवः आसाद्य न सुखमेधत इति तृतीयश्लोकेन सम्बन्धः ॥ 5-133-27 अहोलाभकरं अल्पेऽपि लाभे अहो लाभो जात इति विस्मयं कुर्वाणम् ॥ 5-133-37 दिष्टभावं मरणम् ॥