अध्यायः 132

कृष्णेन कुन्तीम्प्रति सप्रणामं सभावृत्तन्तकथनम् ॥ 1 ॥ कुन्त्या कृष्णचोदनया तस्मिन् युधिष्ठिराय सन्देशप्रेषणम् ॥ 2 । वैशम्पायन उवाच । 001
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च । 001a
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥ 001c
वासुदेव उवाच । 002
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् । 002a
ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान् ॥ 002c
कालपक्वमिदं सर्वं सुयोधनवशानुगम् । 003a
'सर्वक्षत्रं क्षणेनैव दह्यते पार्थवह्निना ।' 003c
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥ 003e
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया । 004a
तद्ब्रूहि त्वं महाप्रज्ञे शुश्रूषे वचनं तव ॥ 004c
कुन्त्युवाच । 005
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् । 005a
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥ 005c
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः । 006a
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥ 006c
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा । 007a
बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः ॥ 007c
क्रूराय कर्मणे नित्यं प्रजानां परिपालने । 008a
श्रृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ॥ 008c
मुचुकुन्दस्य राजर्षेरददत्पृथिवीमिमाम् । 009a
पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान् ॥ 009c
बाहुवीर्यार्जितं राज्यमश्रीयामिति कामये । 010a
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥ 010c
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् । 011a
बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः ॥ 011c
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः । 012a
चतुर्थं तस्य धर्मस्य राजा विन्देन भारत ॥ 012c
राजा चरति चेद्धर्मं देवत्वायैव कल्पते । 013a
स चेदधर्मं चरति नरकायैव गच्छति ॥ 013c
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति । 014a
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति ॥ 014c
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते । 015a
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ 015c
कालो वा कारणं राज्ञो राजा वा कालकारणम् । 016a
इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ 016c
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च । 017a
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ 017c
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते । 018a
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ 018c
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्रुते । 019a
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥ 019c
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः । 020a
राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥ 020c
राजधर्मानवेक्षस्व पितृपैतामहोचितान् । 021a
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥ 021c
न हि वैक्लब्यसंसृष्ट आनृशंस्ये व्यवस्थितः । 022a
प्रजापालनसम्भूतं फलं किञ्चन लब्धवान् ॥ 022c
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः । 023a
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥ 023c
यज्ञो दानं तपः शौर्यं प्रज्ञा सन्तानमेव च । 024a
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥ 024c
नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः । 025a
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥ 025c
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च । 026a
दानमध्ययनं यज्ञः प्रजानां परिपालनम् ॥ 026c
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः । 027a
ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥ 027c
यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः । 028a
प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥ 028c
दानेनान्यं बलेनान्यं तथा सूनृतयाऽपरम् । 029a
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ 029c
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् । 030a
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥ 030c
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते । 031a
क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता ॥ 031c
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर । 032a
साम्ना भेदेन दानेन दण्डेनाथ नयेन वा ॥ 032c
इतो दुःखतरं किं नु यदहं दीनबान्धवा । 033a
परपिण्डमुदीक्षे वै त्वां सूत्वा मित्रनन्दन ॥ 033c
युध्यस्व राजधर्मेण मा निमञ्जीः पितामहान् । 034c
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं ॥ ॥ 034c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥

5-132-5 भूयान् पृथ्वीपालनजो धर्मः ॥ 5-132-6 श्रोत्रियस्य वेदाध्यायिनः । मन्दकस्य अर्थज्ञानशून्यस्य । अनुवाकेन अत्यन्तं वेदाक्षसंवृत्त्या हता नष्टाः ॥ 5-132-20 जगतः दोषेण सच राजा स्पृश्यते ॥ 5-132-22 फलं न लब्धवान् असीति शेषः ॥ 5-132-25 नित्यमिति । मानुषाश्च देवताश्च सम्यगाराधिताः सत्यः इह लोके आयुरादीनि परलोकसाधनानि स्वधादीनि सत्कर्माणि च दद्युः ॥ 5-132-27 एतत् मद्वाक्यं धर्मं धर्मयुक्तं अधर्मं वा जन्मनैव स्वभावत एव अभ्यजायथाः अभिजानीषे । हे कृष्ण ते तु पाण्डवास्तु वैद्याः विद्यावन्तः ॥ 5-132-29 राज्य राजत्वं क्षत्रियत्वमित्यर्थः ॥