अध्यायः 131

श्रीकृष्णेन सभायां विश्वरूपप्रदर्शनम् ॥ 1 ॥ कृष्णप्रसादाल्लब्धचक्षुषा धृतराष्ट्रेण कृष्णं दृष्टवता वक्षुषा इतरेषामदि दृक्षया कृष्णवरात्पुनः स्वचक्षुषोरन्तर्धानाधिगमः ॥ 2 ॥ कृष्णेन तद्रूपोपसंहारपूर्वकं पूर्वरूपं स्वीकृत्य रथाधिरोहणेन कुन्तीसमीपगमनम् ॥ 3 ॥ वैशम्पायन उवाच । 001
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा । 001a
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥ 001c
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन । 002a
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥ 002c
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । 003a
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥ 003c
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा । 004a
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः । 004c
'युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः ॥' 004e
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः । 005a
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥ 005c
लोकपाला भुजेष्वासन्नग्निरास्यादजायत । 006a
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ॥ 006c
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च । 007a
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः ॥ 007c
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ । 008a
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥ 008c
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः । 009a
अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः ॥ 009c
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः । || 010a
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥ 010c
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च । 011a
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ 011c
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः । 012a
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥ 012c
रोमकूपेषु च तथा सूर्यस्येव मरीचयः । 013a
'सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् ॥' 013c
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा । 014a
चन्द्रसूर्यौ तथा नेत्रे ग्रहा वै सर्वतः स्थिताः ॥ 014c
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः । 015a
सरितः सागराश्चैव स्वेदस्तस्य महात्मनः ॥ 015c
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि । 016a
निमेषणं रात्र्यहनी जिह्वायां शारदा तथा ॥ ' 016c
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः । 017a
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥ 017c
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् । 018a
सञ्जयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान् ॥ 018c
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥ 019a
'धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी । 020a
ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः ॥ 020c
ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः । 021a
ऋषयश्च महाभागा लोकपालैः समन्विताः । 021c
प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः ॥ 021e
क्रोधं प्रभो संहर संहर स्वंरूपं च यद्दर्शितमात्मसंस्थम् । 022a
यावत्त्विमे देवगणैः समेतालोकाः समस्ता भुवि नाशमीयुः ॥ 022c
त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे । 023a
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ 023c
कियन्मात्रा महीपालाः किंवीर्याः किम्पराक्रमाः । 024a
तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान् । 024c
एवमुच्चारिता वाचः सह देवार्विभुं तदा ॥' 024e
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले । 025a
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥ 025c
धृतराष्ट्र उवाच । 026
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः । 026a
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥ 026c
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः । 027a
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे ॥ 027c
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः । 028a
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥ 028c
तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी । 029a
लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया ॥ 029c
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः । 030a
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥ 030c
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे । 031a
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ 031c
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् । 032a
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥ 032c
ततः सात्यकिमादाय पाणौ विदुरमेव च । 033a
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥ 033c
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः । 034a
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥ 034c
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः । 035a
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम् ॥ 035c
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् । 036a
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ 036c
ततो रथेन शुभ्रेण महता किङ्किणीकिना । 037a
हेमजालविचित्रेण लघुना मेघनादिना ॥ 037c
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना । 038a
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ 038c
तथैव रथमास्थाय कृतवर्मा महारथः । 039a
वृष्णीनां सम्मतो वीरो हार्दिक्यः समदृश्यत ॥ 039c
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् । 040a
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥ 040c
यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन । 041a
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ॥ 041c
कुरूणां शममिच्छन्तं यतमानं च केशव । 042a
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥ 042c
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव । 043a
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥ 043c
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः । 044a
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥ 044c
वैशम्पायन उवाच । 045
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः । 045a
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥ 045c
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि । 046a
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥ 046c
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः । 047a
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥ 047c
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ । 048a
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥ 048c
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः । 049a
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥ 049c
ततो रथेन शुभ्रेण महता किङ्किणीकिना । 050a
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥ ॥ 050c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥

5-131-28 अदृश्यमाने दर्शनशक्तिरहिते ॥ 5-131-38 वरूथिना रथगुप्तिमता ॥ 5-131-46 मन्दो दुर्योधनः ॥