अध्यायः 130
मातृवाक्यमनादृत्य निर्गतेन दुर्योधनेन कर्णादिभिः सहालोच्य कृष्णबन्धननिर्धारणम् ॥ 1 ॥ इङ्गितज्ञेन सात्यकिना कृष्णादिषु तन्नवेदनम् ॥ 2 ॥ धृतराष्ट्रेण पुनर्दुर्योधनमानाय्य कृष्णस्य दुर्ग्रहत्वनिरूपणम् ॥ 3 ॥ विदुरेण सङ्गृह्य कृष्ण चरित्रनिरूपणपूर्वकं दुर्योधनगर्हणम् ॥ 4 ॥
वैशम्पायन उवाच । 001
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् । 001a
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥ 001c
ततः सभाया निर्गम्य मन्त्रयामास कौरवः । 002a
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ 002c
'दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीत् । 003a
नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः । 003c
बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत ॥ 003e
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ । 004a
पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते ॥ 004c
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ । 005a
दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव ॥ 005c
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् । 006a
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥' 006c
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च । 007a
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥ 007c
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः । 008a
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ 008c
वयमेव हृषीकेशं निगृह्णीम बलादिव । 009a
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥ 009c
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः । 010a
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥ 010c
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च । 011a
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् । 011c
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥ 011e
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् । 012a
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥ 012c
वैशम्पायन उवाच । 013
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् । 013a
इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ॥ 013c
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः । 014a
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥ 014c
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः । 015a
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे ॥ 015c
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव । 016a
आचष्ट तमभिप्रायं केशवाय महात्मने ॥ 016c
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत । 017a
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥ 017c
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् । 018a
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन ॥ 018c
पुरा विकुर्वते मूढाः पापात्मानः समागताः । 019a
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥ 019c
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः । 020a
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥ 020c
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् । 021a
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥ 021c
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप । 022a
अशक्यमयशस्यं च कर्तुं कर्म समुद्यताः ॥ 022c
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च । 023a
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥ 023c
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् । 024a
आसाद्य नभविष्यन्ति पतङ्गा इव पावकम् ॥ 024c
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः । 025a
सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ॥ 025c
न त्वयं निन्दितं कर्म कुर्यात्पापं कथञ्चन । 026a
न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः ॥ 026c
'यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा । 027a
सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः ॥ 027c
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः । 028a
स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् ॥ 028c
पारिजातहरं ह्येनमेकं यदुसुखावहम् । 029a
नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह ॥ 029c
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः । 030a
हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान् ॥ 030c
द्वारमासाद्य सौभस्य विधूय गदया गिरिम् । 031a
द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः ॥ 031c
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः । 032a
क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् ॥ 032c
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः । 033a
अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते ॥ 033c
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः । 034a
तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः ॥ 034c
वैशम्पायन उवाच ।' 035
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् । 035a
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः ॥ 035c
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा । 036a
एते वा मामहं वैनाननुजानीहि पार्थिव ॥ 036c
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे । 037a
न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन ॥ 037c
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः । 038a
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥ 038c
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत । 039a
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥ 039c
'एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः । 040a
नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः ॥ 040c
अनायासेन पार्थानां पर्वतां च शिवं महत् । 041a
निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत् ॥' 041c
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत । 042a
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥ 042c
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत् । 043a
अहं तु सर्वांस्तनयाननुजानामि ते नृप ॥ 043c
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत । 044a
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥ 044c
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् । 045a
शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥ 045c
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् । 046a
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ 046c
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत । 047a
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ॥ 047c
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् । 048a
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ 048c
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् । 049a
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥ 049c
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् । 050a
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ 050c
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः । 051a
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥ 051c
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः । 052a
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥ 052c
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी । 053a
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात् ॥ 053c
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत् । 054a
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ 054c
दुर्योधन निबोधेदं वचनं मम साम्प्रतम् । 055a
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः । 055c
शिलावर्षेण महता छादयामास केशवम् ॥ 055e
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् । 056a
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ॥ 056c
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः । 057a
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ 057c
अनेकयुगवर्षायुर्निहत्य नरकं मृधे । 058a
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ॥ 058c
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः । 059a
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥ 059c
अनेन हि हता बाल्ये पूतना शिशुना तदा । 060a
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥ 060c
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः । 061a
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥ 061c
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् । 062a
बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥ 062c
वरुणो निर्जितो राजा पावकश्चामितौजसा । 063a
पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥ 063c
एकार्णवे च स्वपता निहतौ मधुकैटभौ । 064a
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥ 064c
अयं कर्ता न क्रियते कारणं चापि पौरुषे । 065a
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥ 065c
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम् । 066a
आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम् ॥ 066c
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् । 067a
पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि ॥ ॥ 067c
5-130-9 वैरोचनिं बलिम् ॥ 5-130-18 कर्म दूतनिग्रहाख्यम् ॥ 5-130-38 पाण्डवार्थे पाण्डवधने ॥ 5-130-42 इदं तु कर्म कर्तुमिति शेषः ॥ 5-130-49 निर्मोचने नगरविशेषे ॥