अध्यायः 129

विदुरेण धृतराष्ट्राज्ञया गान्धार्याः सभां प्रत्यानयनम् ॥ 1 ॥ गान्धार्या दुर्योधनं पुनः सभामानाय्य तम्प्रति नीतिकथ नपूर्वकं पाण्डवैः सह शमविधानम् ॥ 2 ॥ वैशम्पायन उवाच । 001
कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः । 001a
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥ 001c
गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् । 002a
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥ 002c
यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम् । 003a
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ॥ 003c
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् । 004a
दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ॥ 004c
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् । 005a
शमयेच्चिररात्राय योगक्षेमवदव्ययम् ॥ 005c
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् । 006a
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥ 006c
धृतराष्ट्र उवाच । 007
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः । 007a
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥ 007c
अशिष्टवदमर्यादः पापैः सह दुरात्मवान् । 008a
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥ 008c
वैशम्पायन उवाच । 009
सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी । 009a
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥ 009c
आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् । 010a
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना । 010c
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा ॥ 010e
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः । 011a
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥ 011c
स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः । 012a
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥ 012c
राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः । 013a
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ॥ 013c
कथं हि स्वजने भेदमुपेक्षेत महीपतिः । 014a
भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः ॥ 014c
या हि शक्या महाराज साम्ना भेदेन वा पुनः । 015a
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥ 015c
वैशम्पायन उवाच । 016
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् । 016a
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥ 016c
स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् । 017a
अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः ॥ 017c
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् । 018a
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ॥ 018c
दुर्योधन निबोधेदं वचनं मम पुत्रक । 019a
हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम् ॥ 019c
दुर्योधन यदाह त्वां पिता भरतसत्तम । 020a
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ॥ 020c
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता । 021c
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥ 021c
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते । 022a
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम ॥ 022c
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् । 023a
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥ 023c
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः । 024a
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ 024c
लोकेश्वर प्रभुत्वं हि महदेतद्दुरात्मभिः । 025a
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥ 025c
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः । 026a
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ 026c
अविधेयानि हीमानि व्यापादयितुमप्यलम् । 027a
अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ 027c
अविजित्य य आत्मानममात्यान्विजिगीषते । 028a
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ॥ 028c
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् । 029a
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 029c
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । 030a
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ॥ 030c
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । 031a
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥ 031c
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् । 032a
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥ 032c
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः । 033a
सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ 033c
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः । 034a
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥ 034c
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते । 035a
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ 035c
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः । 036a
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥ 036c
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः । 037a
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥ 037c
प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम् । 038a
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥ 038c
सुहृदामर्थकामानां यो न तिष्ठति शासने । 039a
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ 039c
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् । 040a
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥ 040c
भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च । 041a
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम ॥ 041c
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि । 042a
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ॥ 042c
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम । 043a
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ॥ 043c
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् । 044a
सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत ॥ 044c
श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः । 045a
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥ 045c
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् । 046a
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥ 046c
अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः । 047a
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥ 047c
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति । 048a
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥ 048c
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये । 049a
धृष्टद्युम्ने च सङ्क्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥ 049c
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः । 050a
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम् ॥ 050c
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः । 051a
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥ 051c
समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् । 052a
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥ 052c
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् । 053a
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥ 053c
न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते । 054a
तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥ ॥ 054c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥

5-129-19 आयत्यां परिणामे ॥ 5-129-21 अपचितिः पूजा ॥ 5-129-23 दीर्घमन्तरं चिरकालम् ॥ 5-129-29 महद्राज्यं । महद्राज्यविशालयोरिति विश्वः ॥ 5-129-31 क्षुद्राक्षेण सूक्ष्मच्छिद्रेण ॥ 5-129-32 याभ्यां पिदधुः तौ कामक्रोधावित्यध्याहारेण योजना ॥ 5-129-33 अभिजायते शास्ति ॥ 5-129-47 निकारः अपकारः ॥