अध्यायः 128

श्रीकृष्णेन दुर्योधनम्प्रति सगर्हणं पाण्डवेषु तत्कृतापनयानुस्मारणम् ॥ 1 ॥ दुर्योधनस्य पाण्डवैरसन्धाने कौरवैर्बन्धनपूर्वकं पाण्डवेभ्यः स्वसमर्पणप्रतिपादकदुश्शासनवचनश्रवणजकोपात् सभातो निर्गमनम् ॥ 2 ॥ कृष्णेन धृतराष्ट्रम्प्रति कुलस्यार्थे दुर्योधनपरित्यागाविधानम् ॥ 3 ॥ तथा सदृष्टान्तप्रदर्शनं दुर्योधनस्य बन्धनपूर्वकं पाण्डवेभ्यः समर्पणविधानम् ॥ 4 ॥ वैशम्पायन उवाच ॥ 001
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः । 001a
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 001c
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि । 002a
स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥ 002c
यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः । 003a
पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप ॥ 003c
श्रियां सन्तप्यमानेन पाण्डवानां महात्मनाम् । 004a
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥ 004c
कथं च ज्ञातयस्तात श्रेयांसः साधुसम्मताः । 005a
तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥ 005c
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् । 006a
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥ 006c
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् । 007a
असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः ॥ 007c
कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति । 008a
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया ॥ 008c
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी । 009a
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥ 009c
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि । 010a
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ॥ 010c
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु । 011a
स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ॥ 011c
नृशंसानामनार्याणां तथा परुषभाषणम् । 012a
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥ 012c
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते । 013a
आस्थितः परमो यत्नो न समृद्धश्च तत्तव ॥ 013c
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा । 014a
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ 014c
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया । 015a
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥ 015c
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् । 016a
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥ 016c
'एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत् । 017a
स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन ॥ 017c
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति । 018a
तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः ॥ 018c
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् । 019a
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥ 019c
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च । 020c
शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव ॥ 020c
शमे हि सुमहाल्ँलाभस्तव पार्थस्य चोभयोः । 021a
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥ 021c
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः । 022a
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥ 022c
वैशम्पायन उवाच । 023
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् । 023a
दुःशासन इदं वाक्यमब्रवीत्करुसंसदि ॥ 023c
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः । 024a
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ 024c
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ । 025a
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥ 025c
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः । 026a
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥ 026c
विदुरं च सोमदत्तं च महाराजं च बाह्लिकम् । 027a
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥ 027c
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः । 028a
अशिष्टवदमर्यादो मानी मान्यावमानिता ॥ 028c
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् । 029a
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥ 029c
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह । 030a
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥ 030c
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते । 031a
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥ 031c
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् । 032a
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥ 032c
कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन । 033a
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥ 033c
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः । 034a
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥ 034c
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः । 035a
प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम् ॥ 035c
तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः । 036a
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः ॥ 036c
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः । 037a
भवतामानुकूल्येन यदि रोचेत भारताः ॥ 037c
पुत्रो वै भोजराजस्य दुराचारो ह्यनात्मवान् । 038a
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः ॥ 038c
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः । 039a
ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥ 039c
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः । 040a
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥ 040c
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः । 041a
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ॥ 041c
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः । 042a
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥ 042c
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत । 043a
अब्रवीत्तु तदा देवो भगवाल्ँलोकभावनः ॥ 043c
पराभविष्यन्त्यसुरा दैतेया दानवैः सह । 044a
आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः ॥ 044c
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः । 045a
अस्मिन्युद्धे सुसङ्क्रुद्धा हनिष्यन्ति परस्परम् ॥ 045c
'वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति । 046a
'इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः । 046c
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥ 046e
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः । 047a
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥ 047c
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः । 048a
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥ 048c
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् । 049a
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥ 049a
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । 050c
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 050c
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः । 051a
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥ ॥ 051c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥