अध्यायः 127
दुर्योधनेन श्रीकृष्णम्प्रति स्वस्मिन्नपराधलेशोऽपि नास्तीति कथनम् ॥ 1 ॥ भीष्मादिरक्षितस्य स्वस्याजय्यत्वकथनपूर्वकं युद्धे निधनसम्भवेऽपि पाण्डवेभ्यः सूच्यग्रपरिमितभूमेरप्यप्रदानवचनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि । 001a
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥ 001c
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव । 002a
मामेव हि विशेषेण विभाष्य परिगर्हसे ॥ 002c
भक्तिवादेन पार्थानामकस्मान्मधुसूदन । 003a
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् ॥ 003c
भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः । 004a
मामेव परिगर्हन्ते नान्यं कञ्चन पाण्डवम् ॥ 004c
न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः । 005a
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥ 005c
न चाहं कञ्चिदत्यर्थमपराधमरिन्दम । 006a
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥ 006c
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन । 007a
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥ 007c
यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः । 008a
तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन ॥ 008c
अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः । 009a
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥ 009c
केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह । 010a
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥ 010c
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि । 011a
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥ 011c
न चापि वयमुग्रेण कर्मणा वचनेन वा । 012a
प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम् ॥ 012c
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् । 013a
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥ 013c
न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन । 014a
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥ 014c
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे । 015a
अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत् ॥ 015c
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन । 016a
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ॥ 016c
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे । 017a
अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव ॥ 017c
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् । 018a
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित् ॥ 018c
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । 019a
अप्यपर्वणि भज्येत न नमेदिह कर्हिचित् ॥ 019c
इति मातङ्गवचनं परिप्सन्ति हितेप्सवः । 020a
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥ 020c
अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथा चरेत् । 021a
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥ 021c
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत् । 022a
न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ 022c
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन । 023a
न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम माधव । 023c
अप्रदेयं पुरा दत्तं राज्यं परवतो मम ॥ 023e
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन । 024a
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ॥ 024c
ध्रियमाणे महाबाहौ मयि सम्प्रति केशव । 025a
यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण केशव । 025c
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ ॥ 025e
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥
5-127-19 अपर्वणि अप्रस्तावे ॥ 5-127-20 मातङ्गः मुनिः ॥