अध्यायः 126
पुनर्भीष्मद्रोणाभ्यां दुर्योधनम्प्रति परेषां युद्धसन्नाहात्पूर्वमेव तैःसह शमविधानम् ॥ 1 ॥
वैशम्पायन उवाच । 001
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ । 001a
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ 001c
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् । 002a
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ॥ 002c
यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः । 003a
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ 003c
यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः । 004a
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ 004c
यावन्न चरते मार्गान्पृतनामभिधर्षयन् । 005a
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ॥ 005c
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् । 006a
गदया वीरघातिन्या फलानीव वनस्पतेः । 006c
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥ 006e
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ 007a
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥ 007c
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् । 008a
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥ 008c
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् । 009a
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥ 009c
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च । 010a
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ॥ 010c
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः । 011a
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥ 011c
अभिवादयमानं त्वां शिरसा राजकुञ्जरः । 012a
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥ 012c
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः । 013a
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ॥ 013c
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च । 014a
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ 014c
शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः । 015a
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ॥ 015c
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः । 016a
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ॥ 016c
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सङ्गतम् । 017a
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ॥ 017c
घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम् । 018a
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥ ॥ 018c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥
5-126-2 मेधाग्नौ सङ्ग्रामाग्नौ । मेधो यज्ञः ॥ 5-126-3 वैशसं वैरम् ॥