अध्यायः 125
भीष्मद्रोणाभ्यां दुर्योधनम्प्रति श्रीकृष्णवचनादरणविधानम् ॥ 1 ॥ तथा धृतराष्ट्रेणापि दुर्योधनम्प्रति श्रीकृष्णवाक्यप्रत्याख्याने अनर्थप्राप्तिकथनम् ॥ 2 ॥
वैशम्पायन उवाच । 001
ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् । 001a
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ॥ 001c
कृष्णेन वाक्यमुक्तोऽसि सृहृदां शममिच्छता । 002a
अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः । 002c
अकृत्वा वचनं तात केशवस्य महात्मनः । 003a
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ॥ 003c
धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः । 004a
तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥ 004c
ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु । 005a
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भंशयिष्यसि ॥ 005c
आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम् । 006a
अहमित्यनया बुद्ध्या जीविताद्भ्रंशयिष्यसि ॥ 006c
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् । 007a
पितुश्च भारतश्रेष्ठ विदुरस्य च धीमतः ॥ 007c
मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः । 008a
मातरं पितरं चैव मा मञ्जीः शोकसागरे ॥ 008c
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः । 009a
अमर्षवशमापन्नं निःश्वसन्तं पुनःपुनः ॥ 009c
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः । 010a
तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप ॥ 010c
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ । 011a
आहतुस्त्वां हितं वाक्यं तज्जुषस्व नराधिप ॥ 011c
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः । 012a
माधवं बुद्धिमोहेन माऽवमंस्थाः परन्तप ॥ 012c
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् । 013a
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥ 013ca
मा जीघनः प्रजाः सर्वाः पुत्रान्भ्रातॄंस्तथैव च । 014a
वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान् ॥ 014c
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः । 015a
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥ 015c
यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः । 016a
कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः । 016c
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ॥ 016e
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु । 017a
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥ 017c
वैशम्पायन उवाच । 018
तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत् । 018a
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ 018c
दुर्योधन न शोचामि त्वामहं भरतर्षभ । 019a
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ॥ 019c
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा । 020a
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ ॥ 020a
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् । 021a
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥ 021c
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत । 022a
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ 022c
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना । 023a
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥ 023c
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा । 024a
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ 024c
सुसंहतः केशवेन तात गच्छ युधिष्ठिरम् । 025a
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम् ॥ 025c
वासुदेवेन तीर्थेन तात गच्छस्व संशमम् । 026a
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥ 026c
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् । 027a
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥ ॥ 027c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥
5-125-25 सुसंहतः सुष्ठ्रु एकीभूतः ॥ 5-125-26 तीर्थेन उपायेन ॥ 5-125-27 अपराभवो जयः ॥