अध्यायः 124
धृतराष्ट्रेण श्रीकृष्णम्प्रति दुर्योधनानुनयप्रार्थन ॥ 1 ॥ श्रीकृष्णेन दुर्योधनानुनयः ॥ 2 ॥
धृतराष्ट्र उवाच । 001
भगवन्नेवमेवैतद्यथा वदसि नारद । 001a
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥ 001c
वैशम्पायन उवाच । 002
एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः । 002a
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥ 002c
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् । 003a
'न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ॥' 003c
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम । 004a
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ॥ 004c
न श्रृणोति महाबाहो वचनं साधु भाषितम् । 005a
गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः । 005c
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ॥ 005e
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् । 006a
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ॥ 006c
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ॥ 007a
वैशम्पायन उवाच । 008
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् । 008a
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥ 008c
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम । 009a
शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ॥ 009c
महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि । 010a
श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः ॥ 010c
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः । 011a
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥ 011c
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् । 012a
असतां विपरीता तु लक्ष्यते भरतर्षभ । 012c
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ॥ 012e
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् । 013a
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ॥ 013c
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि । 014a
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ॥ 014c
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥ 015a
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः । 016a
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ । 016c
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ॥ 016e
पितामहस्य द्रोणस्य विदुरस्य महामतेः । 017a
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ॥ 017c
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः । 018a
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ॥ 018c
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा । 019a
ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् । 019c
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥ 019e
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत । 020a
उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ॥ 020c
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः । 021a
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ॥ 021c
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते । 022a
विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम् ॥ 022c
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते । 023a
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥ 023c
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते । 024a
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥ 024c
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । 025a
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥ 025c
सतां मतमतिक्रम्य योऽसतां वर्तते मते । 026a
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥ 026c
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते । 027a
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥ 027c
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम् । 028a
परान्वृणीते स्वान्द्वेष्टि तं गौस्त्यजति भारत ॥ 028c
स त्वं विरुद्ध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि । 029a
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥ 029c
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् । 030a
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥ 030c
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया । 031a
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥ 031c
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः । 032a
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः ॥ 032c
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ । 033a
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥ 033c
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ । 034a
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासम्भवे नराः ॥ 034c
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते । 035a
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ॥ 035c
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः । 036a
कामार्थावनुपायेन लिप्समानो विनश्यति ॥ 036c
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् । 037a
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ॥ 037c
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशाम्पते । 038a
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥ 038c
स त्वं तातानुपायेन लिप्ससे भरतर्षभ । 039a
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥ 039c
आत्मानं तक्षति ह्येष वनं परशुना यथा । 040a
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते । 040c
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ॥ 040e
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः । 041a
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ॥ 041c
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान् । 042a
अमर्षवशमापन्नो न किञ्चिद्बुद्ध्यते जनः ॥ 042c
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत । 043a
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ॥ 043c
तैर्हि सम्प्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि । 044a
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ॥ 044c
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः । 045a
दुःशासने दुर्विषहे कर्णे चापि ससौबले ॥ 045c
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत । 046a
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ॥ 046c
विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत । 047a
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ॥ 047c
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे । 048a
इदं सनिहितं तात समग्रं पार्थिवं बलम् ॥ 048c
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः । 049a
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ॥ 049c
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् । 050a
अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः । 050c
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥ 050e
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले । 051a
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥ 051c
किं ते जनक्षयेणेह कृतेन भरतर्षभ । 052a
यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यतां ॥ 052c
यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् । 053a
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ॥ 053c
तथा विराटनगरे श्रूयते महदद्भुतम् । 054a
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ 054c
युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः । 055a
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् । 055c
आशंससीह समरे वीरमर्जुनमूर्जितम् ॥ 055e
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति । 056a
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ॥ 056c
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः । 057a
पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ 057c
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिनस्तथा । 058a
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ॥ 058c
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् । 059a
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥ 059c
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः । 060a
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ॥ 060c
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् । 061a
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ॥ 061c
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः । 062a
सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ॥ 062c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥
5-124-19 शास्त्रे शासने ॥ 5-124-22 किम्पाकं महाकालफलम् ॥ 5-124-24 निःश्रेयसं कल्याणम् ॥ 5-124-28 गौः भूमिः ॥ 5-124-32 उपचरिताः प्रचारिताः ॥ 5-124-35 अर्थं कलि कलहहेतुम ॥ 5-124-36 अनुपायन हीनोपायेन ॥ 5-124-44 निर्मितां वशीकरणेनोत्पादिताम् ॥ 5-124-52 यस्मिन्नर्जुने जिते सति ते तव जितं जयः स्यात् ॥