अध्यायः 123
स्वर्गे ययातिप्रश्नानुरोधेन पितामहेन तत्पतनकारणकथनम् ॥ 1 ॥ नारदेन ययात्युपाख्यानोपसंहारपूर्वकं दुर्योधनम्प्रति गालवययातिदृष्टान्तप्रदर्शनेन निर्बन्धाभिमानत्यागपूर्वकं पाण्डवैः सन्धिकरणविधानम् ॥ 2 ॥
नारद उवाच । 001
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः । 001a
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥ 001a
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना । 001a
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥ 001a
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् । 001a
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥ 001a
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः । 001a
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ॥ 001a
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः । 005a
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥ 005c
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः । 006a
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥ 006c
चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा । 007a
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ॥ 007c
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम् । 008a
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ॥ 008c
येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः । 009a
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ॥ 009c
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् । 010a
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥ 010c
ययातिरुवाच । 011
भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि । 011a
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥ 011c
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् । 012a
अनेकक्रतुदानौघैरार्जितं मे महत्फलम् ॥ 012c
कथं तदल्पकालेन क्षीणं येनास्मि पातितः । 013a
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् । 013c
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ॥ 013e
पितामह उवाच । 014
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् । 014a
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥ 014c
तदनेनैव दोषेण क्षीणं येनासि पातितः । 015a
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥ 015c
नायं मानेन राजर्षे न बलेन न हिंसया । 016a
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥ 016c
नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः । 017a
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ॥ 017c
पतनारोहणमिदं कथयिष्यन्ति ये नराः । 018a
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥ 018c
नारद उवाच । 019
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना । 019a
निर्बध्नताऽतिमात्रं च गालवेन महीपते ॥ 019c
श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम् । 020a
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥ 020c
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय । 021a
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥ 021c
स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् । 022a
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि ॥ 022c
ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यञ्जुहोति । 023a
न तस्य नाशोऽस्ति न चापकर्षोनान्यस्तदश्नाति स एव कर्ता ॥ 023c
इदं महाख्यानमनुत्तमं हितम्बहुश्रुतानां गतरोषरागिणाम् । 024a
समीक्ष्य लोके बहुधा प्रधारितन्त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥ 024c
'एतत्पुण्यतमं राजन्ययातेश्चरितं महत् । 025a
यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः'॥ ॥ 025c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥
5-123-8 स्वकृतेन सम्यक्सम्पादितेन कर्मणा । मया समोऽन्यो नास्तीति वाक्प्रयोगेण । तमसा क्रोधेन ॥ 5-123-24 प्रधारितं निश्चितम् ॥