अध्यायः 122

स्वदौहित्रादिदत्तपुण्यफलप्रभावेण पुनर्ययातेः स्वर्गगमनम् ॥ 1 ॥ नारद उवाच । 001
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः । 001a
समारुरोह नृपतिरस्पृशन्वसुधातलम् । 001c
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥ 001e
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः । 002a
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥ 002c
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः । 003a
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥ 003c
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया । 004a
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥ 004c
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् । 005a
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥ 005c
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः । 006a
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥ 006c
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः । 007a
वीरशब्दफलं चैव तेन संयुज्यतां भवान् । 007c
यथा धर्मेरतिर्नित्यं तेन सत्येन खं व्रज ॥ 007e
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् । 008a
यथा बालेषु नारीषु वैवाह्येषु तथैव च ॥ 008c
सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च । 009a
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥ 009c
यथा प्राणांश्च राज्यं च राजन्कामसुखानि च । 010a
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥ 010c
यथा सत्येन मे धर्मो यथा सत्येन पावकः । 011a
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ॥ 011c
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः । 012a
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ॥ 012c
शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो । 013a
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥ 013c
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा । 014a
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥ 014c
नारद उवाच । 015
यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् । 015a
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥ 015c
एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा । 016a
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥ 016c
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै । 017a
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः । 017c
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ॥ 017e
राजान ऊचुः । 018
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः । 018a
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥ ॥ 018c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥

5-122-1 प्रत्यभिज्ञातेति ॥ 5-122-5 आधाने अग्र्याधानोपलक्षिते श्रौतधर्मे ॥ 5-122-9 आपत्सु सङ्कटेषु । व्यसनेषु द्यूतादिषु । खं स्वर्गम् ॥