अध्यायः 121

ययातिम्प्रति इन्द्रदूतेन पतेत्युक्तिः ॥ 1 ॥ ययातेः सत्सु पतेयमिति स्वप्रार्थितेन्द्रवरेण नैमिषे यजतां स्वदौहित्राणां मध्ये भुवम्प्रति पतनम् ॥ 2 ॥ ययातिना तैः प्रदित्सितसुकृतफलप्रतिग्रहानभिरोचनम् ॥ 3 ॥ तत्रागतया माधव्या तेषां तद्दौहित्रमामभिधाय ययातये तेभ्यः सुकृतफलप्रदापनपूर्वकं स्वसुकृतफलार्धदानम् ॥ 4 ॥ गालवेन स्वतपोष्टमांशफलदानम् ॥ 5 ॥ नारद उवाच । 001
अथ प्रचलितः स्थानादासनाच्च परिच्युतः । 001a
कम्पितेनेव मनसा धर्षितः शेकवाह्निना ॥ 001c
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः । 002a
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥ 002c
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः । 003a
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥ 003c
किं मया मनसा ध्यातमशुभं धर्मदूषणम् । 004a
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥ 004c
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा । 005a
अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् ॥ 005c
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः । 006a
ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात् ॥ 006c
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे । 007a
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ॥ 007c
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् । 008a
पतेयं सत्स्विति वचस्त्रिरुत्त्का नहुषात्मजः ॥ 008c
पतिष्यन्न्तयामास गतिं गतिमतां वरः । 009a
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ॥ 009c
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह । 010a
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ॥ 010c
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् । 011a
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ॥ 011c
ययातिरुपजिघ्रन्वै निपपात महीं प्रति । 012a
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीमिव । 012c
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥ 012e
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु । 013a
मध्ये निपतितो राजा लोकपालोपमेषु सः ॥ 013c
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु । 014a
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ॥ 014c
तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया । 015a
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥ 015c
यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा । 016a
न हि मानुषरूपोसि कोवार्थः काङ्क्ष्यते त्वया ॥ 016c
ययातिरुवाच । 017
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः । 017a
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥ 017c
राजान ऊचुः । 018
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ । 018a
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥ 018c
ययातिरुवाच । 019
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियोऽह्यहम् । 019a
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥ 019c
नारद उवाच । 020
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् । 020a
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥ 020c
किमागमनकृत्यं ते किं कुर्मः शासनं तव । 021a
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥ 021c
नारद उवाच । 022
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा । 022a
पितरं समुपागच्छद्ययातिं सा ववन्द च ॥ 022c
स्पृष्ट्वा मूर्धनि तान्पुत्रांस्तापसी वाक्यमब्रवीत् । 023a
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ॥ 023c
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् । 024a
अहं ते दुहिता राजन्माधवी मृगचारिणी ॥ 024c
मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् । 025a
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ॥ 025c
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप । 026a
नारद उवाच । 026
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ॥ 026c
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् । 027a
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् । 027c
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् । 027e
'राजान ऊचुः । 020
राजधर्मगुणोपेताः सत्यधर्मगुणान्विताः । 028a
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥ 028c
नारद उवाच ।' 029
अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम् । 029a
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥ ॥ 029c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥

5-121-10 शिबिरौशीनर इत्येकः ॥ 5-121-13 प्रतिबन्धुषु दौहित्ररूपेषु ॥ 5-121-15 बन्धुः पालयिता ॥ 5-121-29 अष्टभागेन अष्टमांशेन ॥