अध्यायः 120
ययातिना माधव्याः गङ्गायमुनासङ्गमदेशे स्वयंवरोद्घोषणेन यक्षगन्धर्वादीनां तत्रागमनम् ॥ 1 ॥ माधव्या तु सर्ववरानतिक्रम्य वनमध्ये तपश्चरणम् ॥ 2 ॥ कालान्तरे स्वर्गं गतस्य ययातेः बहुवर्षसहस्रावसाने सदसि देवर्ष्याद्यवमाननेन सद्यस्तेजोहानिः ॥ 3 ॥
नारद उवाच । 001
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् । 001a
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे ॥ 001c
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् । 002a
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ 002c
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् । 003a
शैलद्रुमवनौकानामासीत्तत्र समागमः ॥ 003c
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् । 004a
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ 004c
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी । 005a
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम् ॥ 005c
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु । 006a
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ 006c
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा । 007a
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ 007c
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च । 008a
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥ 008c
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च । 009a
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ 009c
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च । 010a
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥ 010c
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी । 011a
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥ 011c
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः । 012a
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ॥ 012c
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ । 013a
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ 013c
महीपते नरपतिर्ययातिः स्वर्गमास्थितः । 014a
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥ 014c
बहुवर्षसहस्राख्ये काले बहुगुणे गते । 015a
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु ॥ 015c
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा । 016a
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ 016c
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः । 017a
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥ 017c
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् । 018a
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥ 018c
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम् । 019a
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ 019c
एवं विचारस्यन्तस्ते राजानं स्वर्गवासिनः । 020a
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ 020c
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः । 021a
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन् ॥ 021c
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् । 022a
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ॥ ॥ 022c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि विंशत्यधिकशततमोऽध्यायः ॥
5-120-1 सतु राजा आश्रमपदमुपगम्य कर्तुकाभः अभूदिति शेषः ॥ 5-120-2 पर्यधावतां वरान्वेषणायेत्यर्थः ॥ 5-120-5 वनं वनवासम् ॥ 5-120-10 व्याघ्राणां विप्रोषितं पर्यटनं येषु ॥ 5-120-12 कालधर्मणा मृत्युना ॥ 5-120-13 नाहुषः ययातिः ॥