अध्यायः 119
गालवेन गरुडम्प्रत्यश्वानां शतद्वयन्यूनताकथनम् ॥ 1 ॥ गरुडेन तस्य दुर्लभत्वकथनपूर्वकं तत्प्रतिनिधितया माधव्या एव दानकथनम् ॥ 2 ॥ विश्वामित्रेण गालवदत्तायां माधव्यां अष्टकाख्यपुत्रमुत्पाद्य तस्याः पुनर्गालवे प्रत्यर्पणम् ॥ 3 ॥ गालवेन पुनर्ययातये माधवीप्रत्यर्पणम् ॥ 4 ॥
नारद उवाच । 001
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् । 001a
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥ 001c
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् । 002a
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥ 002c
सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः । 003a
प्रयत्नस्ते न कर्तव्यो नैष सम्पत्स्यते तव ॥ 003c
पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम् । 004a
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः ॥ 004c
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् । 005a
भगवन्दीयताकं मह्यं महस्रमिति गालव ॥ 005c
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः । 006a
अश्वतीर्थे हयाल्ँलब्ध्वा दत्तवान्पार्थिवाय वै ॥ 006c
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु । 007a
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ॥ 007c
अपराण्यपि चत्वारि शतानि द्विजसत्तम । 008a
नीयमानानि सन्तारे हृतान्यासन्नितस्ततः ॥ 008c
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् । 009a
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ॥ 009c
विश्वामित्राय धर्मात्मन्षङ्भिरश्वशतैः सह । 010a
ततोऽसि गतसम्मोहः कृतकृत्यो द्विजोत्तम ॥ 010c
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः । 011a
आदायाश्वांश्च कन्यां च विश्वामित्रपुपागमत् ॥ 011c
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै । 012a
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥ 012c
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः । 013a
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ॥ 013c
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते । 014a
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥ 014c
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा । 015a
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥ 015c
किमियं पूर्वमेवेह न दत्ता मम गालव । 016a
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥ 016c
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै । 017a
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ॥ 017c
नारद उवाच । 018
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः । 018a
आत्मजं जनयामास माधवीपुत्रमष्टकम् ॥ 018c
जातमात्रं सुतं तं च विश्वामित्रो महामुनिः । 019a
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥ 019c
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् । 020a
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ ॥ 020c
गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम् । 021a
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ॥ 021c
जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः । 022a
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ॥ 022c
तदागच्छ वरारोहे तारितस्ते पिता सुतैः । 023a
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ॥ 023c
नारद उवाच । 024
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् । 024a
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥ ॥ 024c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥
5-119-8 सन्तारे मार्गे ॥ 5-119-18 अष्टकं तन्नामकम् ॥ 5-119-20 निर्यात्य प्रत्यर्प्य । शिष्याय गालवाय ॥