अध्यायः 118

गालवेन पुनः कन्यात्वमुपगतया माधव्या सह उशीनरनृपं गत्वा स्वागमनकारणकथनम् ॥ 1 ॥ तेनाप्यश्वशतद्वयदानेन माधव्यां शिबिनामकतनयोत्पादनम् ॥ 2 ॥ कालान्तरे उशीनरान्माधवीमादाय गच्छतो गालवस्य मध्येमार्गं गरुडेन समागमः ॥ 3 ॥ नारद उवाच । 001
तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी । 001a
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा ॥ 001c
गालवो विमृशन्नेव स्वकार्यगतमानसः । 002a
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥ 002c
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् । 003a
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥ 003c
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च । 004a
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ॥ 004c
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् । 005a
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥ 005c
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे । 006a
यदि शक्यं महाराज क्रियतामविचारितम् ॥ 006c
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव । 007a
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥ 007c
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः । 008a
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥ 008c
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् । 009a
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥ 009c
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव । 010a
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥ 010c
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम । 011a
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ 011c
अहमप्येकमेवास्यां जनयिष्यामि गालव । 012a
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम् ॥ 012c
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम । 013a
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥ 013c
कामतो हि धनं राजा पारक्यं यः प्रयच्छति । 014a
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥ 014c
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम । 015a
कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥ 015c
तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् । 016a
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥ 016c
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् । 017a
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥ 017c
कन्दरेषु च शैलानां नदीनां निर्झरेषु च । 018a
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ 018c
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च । 019a
वातायनविमानेषु तथा गर्भगृहेषु च ॥ 019c
ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः । 020a
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥ 020c
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च । 021a
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥ ॥ 021c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टादशाधिकशततमोऽध्यायाः ॥