अध्यायः 117

गालवेन दिवोदासम्प्रति स्वागमनकारणकथनम् ॥ 1 ॥ तेन स्वस्याप्यश्वशतद्वयवत्त्वेन एकपुत्रोत्पादनकथनम् ॥ 2 ॥ तथा शुल्कदानेन तस्यां प्रतर्दनाख्यसुतमुत्पाद्य कालान्तरागताय गालवाय माधवीप्रत्यर्पणम् ॥ 3 ॥ गालव उवाच । 001
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः । 001a
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥ 001c
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः । 002a
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः ॥ 002c
नारद उवाच । 003
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः । 003a
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥ 003c
दिवोदाम उवाच । 004
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज । 004a
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम ॥ 004c
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् । 005a
मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥ 005c
स एव विभवोऽसमाकमश्वानामपि गालव । 006a
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥ 006c
नारद उवाच । 007
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः । 007a
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान् ॥ 007c
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः । 008a
स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः ॥ 008c
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः । 009a
वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः ॥ 009c
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः । 010a
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥ 010c
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया । 011a
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ॥ 011c
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा । 012a
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥ 012c
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः । 013a
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा ॥ 013c
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः । 014a
ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः ॥ 014c
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः । 015a
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ॥ 015c
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया । 016a
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया ॥ 016c
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः । 017a
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः ॥ 017c
तथा तु रममाणस्य दिवोदासस्य भूपतेः । 018a
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥ 018c
अथाजगाम भगवान्दिवोदासं स गालवः । 019a
समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥ 019c
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः । 020a
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥ 020c
नारद उवाच । 021
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् । 021a
कान्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥ ॥ 021c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥