अध्यायः 116

हर्यश्वपृष्टेन गालवेन तं प्रति शुल्कनिवेदनम् ॥ 1 ॥ हर्यश्वेन गालवम्प्रति स्वस्याश्वशतद्वयवत्तया वरदाने सति एकापत्योत्पादनेन पुनः कन्याविसर्जनोक्तिः ॥ 2 ॥ माधव्या गालवम्प्रति स्वस्य प्रसूत्यन्ते प्रसूत्यन्ते पुनः पुनः कन्यात्वसम्पादकविप्रवरप्राप्तिकथनम् ॥ 3 ॥ हर्यश्वेन शुक्लदानेन तस्यां वसुमनोनामकपुत्रोत्पादनम् ॥ 4 ॥ हर्यश्वेन कालान्तरे समागताय गालवाय पुनर्माधवीप्रत्यर्पणम् ॥ 5 ॥ गालवेन कामतः पुनः कन्यात्वमुपगतया तया सह दिवोदाससमीपगमनम् ॥ 6 ॥ नारद उवाच । 001
हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः । 001a
दीर्घमुष्णं च निश्वस्य प्रजाहेतोर्नृपोत्तमः ॥ 001c
उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु पञ्चसु । 002a
गम्भीरा त्रिषु चाङ्गेषु इयं रक्ता च पञ्चसु ॥ 002c
'श्रोण्यौ ललाटमूरू च घ्राणं चेति षडुन्नतम् । 003a
सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनस्वत्वचः । 003c
स्वरः सत्वं च नाभिश्च त्रिगम्भीरं प्रचक्षते । 004a
पाणिपादतले रक्ते नेत्रान्तौ च नखानि च ॥ 004c
पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । 005a
सप्तरक्तं त्रिविस्तीर्णं त्रिगम्भीरं प्रशस्यते ॥ 005c
पञ्चैव दीर्घा हनुलोचनानिबाहूरुनासाश्च सुखप्रदानि । 006a
ह्रस्वानि चत्वारि च लिङ्गपृष्ठेग्रीवा च जङ्घे च हितप्रदानि ॥ 006c
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशास्त्वक्चैव वै कररुहाश्च न दुःखितानाम् । 007a
वक्षोऽथ कक्षो नखनासिकास्युरंसत्रिकं चेति षडुन्नतानि ॥ 007c
नेत्रान्तपादकरताल्वधरोष्ठजिह्वारक्ता नखाश्च खलु सर्वसुखावहानि ॥' 008a
बहुदेवासुरालोका बहुगन्धर्वदर्शना । 009a
बहुलक्षणसम्पन्ना बहुकल्याणधारिणी ॥ 009c
समर्थेयं जनयितुं चक्रवर्तिनमात्मजम् । 010a
ब्रूहि शुल्कं द्विजश्रेष्ठ समीक्ष्य विभवं मम ॥ 010c
गालव उवाच । 011
एकतःश्यामकर्णानां शतान्यष्टौ प्रयच्छ मे । 011a
हयानां चन्द्रशुभ्राणां देशजानां वपुष्मताम् ॥ 011c
ततस्तव भवित्रीयं पुत्राणां जननी शुभा । 012a
अरणीव हुताशानां योनिरायतलोचना ॥ 012c
नारद उवाच । 013
एतच्छ्रुत्वा वचो राजा हर्यश्वः काममोहितः । 013a
उवाच गालवं दीनो राजर्षिर्ऋषिसत्तमम् ॥ 013c
द्वे मे शते सन्निहिते हयानां यद्विधास्तव । 014a
एष्टव्याः शतशस्त्वन्ये चरन्ति मम वाजिनः ॥ 014c
सोऽहमेकमपत्यं वै जनयिष्यामि गालव । 015a
अस्यामेतं भवान्कामं सम्पादयतु मे वरम् ॥ 015c
एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् । 016a
मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥ 016c
प्रसूत्यन्ते प्रसूत्यन्ते कन्यैव त्वं भविष्यसि । 017a
स त्वं ददस्व मां राज्ञे प्रतिगृह्य हयोत्तमान् ॥ 017c
नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै । 018a
भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥ 018c
क्रियतामुपसंहारो गुर्वर्थं द्विजसत्तम । 019a
एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥ 019c
एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा । 020a
हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥ 020c
इयं कन्या नरश्रेष्ठ हर्यश्व प्रतिगृह्यताम् । 021a
चतुर्भागेन शुल्कस्य जनयस्वैकमात्मजम् ॥ 021c
नारद उवाच । 022
प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च । 022a
समये देशकाले च लब्धवान्सुतमीप्सितम् ॥ 022c
ततो वसुमना नाम वसुभ्यो वसुमत्तरः । 023a
वसुप्रख्यो नरपतिः स बभूव वसुप्रदः ॥ 023c
अथ काले पुनर्धीमान्गालवः प्रत्युपस्थितः । 024a
उपसङ्गम्य चोवाच हर्यश्वं प्रीतमानसम् ॥ 024c
जातो नृप सुतस्तेऽयं बालो भास्करसन्निभः । 025a
कालो गन्तुं नरश्रेष्ठ शुल्कार्थमपरं नृपम् ॥ 025c
नारद उवाच । 026
हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे । 026a
दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥ 026c
माधवी च पुनर्दीप्तां परित्यज्यनृपश्रियम् । 027a
कुमारी कामतो भूत्वा गालवं पृष्ठतोऽन्वगात् ॥ 027c
त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः । 028a
प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥ ॥ 028c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षोडशाधिकशततमोऽध्यायः ॥

5-116-9 बहुभिर्देवैरसुरैश्च आलोकयितुं योग्या बहुदेवासुरालोका । गन्धर्वाणां दर्शनं शास्त्रं गीतादिविद्या यस्यां सा तथा ॥