अध्यायः 115
व्ययितवित्तेन ययातिना धनप्रतिनिधितया माधवीनामकस्वकन्यकासमर्पणम् ॥ 1 ॥ गरुडेन समधिगततुरगाधिगमोपायं गालवमापृच्छ्य स्वगृहगमनम् ॥ 2 ॥ गालवेन सह कन्यया हृर्यश्वनामकनृपसमीपमुपेत्य शुल्कार्पणेन कन्या कलत्रीकरणकथनम् ॥ 3 ॥
नारद उवाच । 001
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् । 001a
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ 001c
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः । 002a
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥ 002c
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् । 003a
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ 003c
अतीत्य च नृपानन्यानादित्यकुलसम्भवान् । 004a
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥ 004c
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् । 005a
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥ 005c
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा । 006a
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥ 006c
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग । 007a
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ॥ 007c
पुत्रीं दास्यामि यत्कार्यमियं सम्पादयिष्यति । 008a
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ 008c
नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते । 009a
यथाशानाशनं लोके देहि नास्तीति वा वचः ॥ 009c
हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः । 010a
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥ 010c
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम । 011a
'माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ॥' 011c
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी । 012a
सदा देवमनुष्यणामसुराणां च गालव । 012c
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ 012e
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् । 013a
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ 013c
स भवान्प्रतिगृह्णातु ममैतां माधवीं सुताम् । 014a
अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ॥ 014c
'स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।' 015a
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा । 015c
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ 015e
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः । 016a
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ 016c
गते पतगराजे तु गालवः सह कन्यया । 017a
चिन्तयानः क्षमन्दाने राजानं शुल्कतोऽगमत् ॥ 017c
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् । 018a
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ 018c
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् । 019a
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ 019c
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् । 020a
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ 020c
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् । 021a
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥ ॥ 021c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥