अध्यायः 114

गालवानुगतेन गरुडेन ययातिङ्गत्वा गालववृत्तान्तकथनपूर्वकं धनयाचनम् ॥ 1 ॥ नारद उवाच । 001
अथाह गालवं दीनं सुपर्णः पततां वरः । 001a
निर्मितं वह्निना भूमौ वायुना शोधितं तथा । 001c
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥ 002e
धत्ते धारयते चेदमतस्मात्कारणाद्धनम् । 002a
तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥ 002c
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा । 003a
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥ 003c
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च । 004a
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ । 004c
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ॥ 004e
स त्वं याचात्र राजानं कञ्चिद्राजर्षिवंशजम् । 005a
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥ 005c
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा । 006a
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥ 006c
ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः । 007a
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥ 007c
विभवश्चास्य सुमहानासीद्धनपतेरिव । 008a
एवं गुरुधनं विद्वन्दानेनैव विशोधय ॥ 008c
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् । 009a
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥ 009c
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् । 010a
पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥ 010c
अयं मे नाहुष सखा गालवस्तपसो निधिः । 011a
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥ 011c
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः । 012a
तमाह भगवान्किं ते ददानि गुरुदक्षिणाम् ॥ 012c
असकृत्तेन चोक्तेन किञ्चिदागतमन्युना । 013a
अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥ 013c
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् । 014a
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥ 014c
गुर्वर्थो दीयतामेव यदि गालव मन्यसे । 015a
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥ 015c
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः । 016a
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥ 016c
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः । 017a
कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः ॥ 017c
तपसः संविभागेन भवन्तमपि योक्ष्यते । 018a
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥ 018c
यावन्ति रोमाणि हये भवन्तीह नरेश्वर । 019a
तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते ॥ 019c
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् । 020a
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥ ॥ 020c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥

5-114-1 हिर्वह्निः वह्निशब्दघटकवर्णलोपादिना हिशब्दस्य निष्पन्नत्वात् । एवं रमणीयशब्दनिष्पन्नरणशब्दवाच्यो वायुः क्रमेण ताभ्यां जातत्वाच्छोधितत्वाच्च हिरण्यमित्युच्यते । यस्माच्च सर्वं जगत् हिरण्मयं हिरण्यप्रधानकं तेन च हिरण्यमित्युच्यत इत्यर्थः । हिरण्यस्य हितत्वाद्रमणीयत्वाच्च जगत्पतिप्राधान्यम् ॥ 5-114-2 धत्ते पुष्णाति । धारयते जीवयति ॥ 5-114-3 प्रोष्टपदाभ्याम् । तस्मिन्नक्षत्रद्वये शुक्रे शुक्रवासरे तद्योगे सति धनपतौ कुबेरस्य वृद्ध्यर्थम् ॥ 5-114-5 याच याचस्व ॥ 5-114-8 विशोधय परिहर ॥