अध्यायः 113
ऋषभगिरिश्रृङ्गमुपगतयोः गरुडगालवयोः तत्र शाण्डिलीनामकब्राह्मणीदर्शनम् ॥ 1 ॥ तद्दत्तान्नमुपभुज्य विश्रमाय तत्र शयनम् ॥ 2 ॥ सुप्तोत्थितं शिथिलपक्षबन्धं तार्क्ष्यमभिवीक्ष्य गालवेन तम्प्रति तत्कारणप्रश्नः ॥ 3 ॥ सुपर्णेन ब्राह्मण्याः विष्णवाद्यन्यतमसमीपप्रापणानुचिन्तनस्य स्वानर्थप्राप्तिकारणत्वकथनपूर्वकं ताम्प्रति क्षमापनम् ॥ 4 ॥ तत्प्रसादाधिगतपक्षबलेन सुपर्णेन सह गच्छतो गालवस्य मध्येमार्गं यदृच्छोपागतेन विश्वामित्रेण पुनरश्वानयनचोदनम् ॥ 5 ॥
नारद उवाच । 001
ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ । 001a
शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ॥ 001c
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् । 002a
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः ॥ 002c
सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् । 003a
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ॥ 003c
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया । 004a
'तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम् ॥ 004c
ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् । 005a
'अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥ 005c
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः । 006a
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ॥ 006c
किमिदं भवता प्राप्तमिहागमनजं फलम् । 007a
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥ 007c
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् । 008a
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥ 008c
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज । 009a
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥ 009c
यत्र देवो महादेवो यत्र विष्णुः सनातनः । 010a
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥ 010c
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया । 011a
मयैतन्नाम प्रध्यातं मनसा शोचसा किल ॥ 011c
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् । 012a
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ॥ 012c
सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ । 013a
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज सम्भ्रमम् ॥ 013c
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् । 014a
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ॥ 014c
हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया । 015a
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥ 015c
आचारः फलते धर्ममाचारः फलते धनम् । 016a
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ 016c
तदायुष्मन्खगपते यथेष्टं गम्यतामितः । 017a
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ॥ 017c
'यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि । 018a
तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन ॥ 018c
तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् । 019a
त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि ॥' 019c
भवितासि यथापूर्वं बलवीर्यसमन्वितः । 020a
नारद उवाच । 020
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥ 020c
अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् । 021a
नैव चासादयामास तथारूपांस्तुरङ्गमान् ॥ 021c
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः । 022a
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ॥ 022c
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज । 023a
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥ 023c
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् । 024a
यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम् ॥ 024c
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् । 025a
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥ 025c
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव । 026a
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम् ॥ ॥ 026c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥
5-113-5 भ्रष्टतनूजं छिन्नपक्षमङ्गं यस्य तं भ्रष्टतनूजाङ्गम् ॥ 5-113-8 व्यभिचारो धर्मातिक्रमः ॥ 5-113-11 शोचता कथमियमत्र वसतीति ॥ 5-113-20 द्रविणवत्तरौ बलवत्तरौ ॥ 5-113-23 अपवर्गस्य फलप्राप्तेः ॥ 5-113-24 निशाम्यतां विचार्यताम् ॥