अध्यायः 112

गरुडवेगमसहमानेन गालवेन गुरुदक्षिणानर्पणेनैव स्वप्राणविमोक्षणशङ्कया परिशोचनम् ॥ 1 ॥ गरुडेन गालवम्प्रति प्रागेवाभिमतानिवेदनेन अकौशलाभिलपनपूर्वकं ॠषभाचले विश्रम्य पुनर्निवर्तनकीर्तनम् ॥ 2 ॥ गालव उवाच । 001
गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज । 001a
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ 001c
पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता । 002a
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ॥ 002c
अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः । 003a
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् । 003c
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ॥ 003e
नारद उवाच । 004
तमाह विनतासूनुरारोहस्वेति वै द्विजम् । 004a
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥ 004c
गालव उवाच । 005a
क्रममाणस्य ते रूपं दृश्यते पन्नगाशन । 005a
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥ 005c
पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् । 006a
प्रस्थितानामिव समं पश्यामीह गतिं खग ॥ 006c
ससागरवनामुर्वी सशैलवनकाननाम् । 007a
आकर्षन्निव चाभासि पक्षवातेन खेचर ॥ 007c
समीननागनक्रं च खमिवारोप्यते जलम् । 008a
वायुना चैव महता पक्षवातेन चानिशम् ॥ 008c
तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् । 009a
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव ॥ 009c
महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते । || 010a
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ 010c
शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् । 011a
न दृश्यते रविस्तात न दिशो न च खं खग ॥ 011c
तम एव तु पश्यामि शरीरं ते न लक्षये । 012a
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥ 012c
शरीरं तु न पश्यामि तव चैवात्मनश्च ह । 013a
पदेपदे तु पश्यामि शरीरादग्निमुत्थितम् ॥ 013c
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः । 014a
तन्नियच्छ महावेगं गमने विनतात्मज ॥ 014c
न मे प्रयोजनं किञ्चिद्गमने पन्नगाशन । 015a
सन्निवर्त महाभाग न वेगं विषहामि ते ॥ 015c
गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् । 016a
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ 016c
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज । 017a
ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः ॥ 017c
नैव मेऽस्ति धनं किञ्चिन्न धनेनान्वितः सुहृत् । 018a
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥ 018c
नारद उवाच । 019
एवं बहु च दीनं च ब्रुवाणं गालवं तदा । 019a
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥ 019c
नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि । 020a
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ 020c
किमहं पूर्वमेवेह भवता नाभिचोदितः । 021a
उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥ 021c
तदेष ऋषभो नाम पर्वतः सागरान्तिके । 022a
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ ॥ 022c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वादशाधिकशततमोऽध्यायः ॥

5-112-12 मणी वेति इवार्थे वशब्दः ॥ 5-112-14 निर्वाप्य मन्दीकृत्य ॥ 5-112-15 सन्निवर्त निवर्तस्व ॥ 5-112-20 योत्मानं सन्धिरार्षः । कृत्रिमः स्वेच्छासम्पाद्यः । कालो मृत्युः ॥