अध्यायः 110

गरुडेन गालवम्प्रति पश्चिमदिग्गुणवर्णनम् ॥ 1 ॥ सुपर्ण उवाच । 001
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः । 001a
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥ 001c
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् । 002a
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥ 002c
यादसामत्र राज्येन सलिलस्य च गुप्तये । 003a
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥ 003c
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् । 004a
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥ 004c
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा । 005a
निश्वसन्तो महावातैरर्दिताः सुषुपुर्द्विज ॥ 005c
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः । 006a
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्पति ॥ 006c
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये । 007a
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥ 007c
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् । 008a
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥ 008c
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् । 009a
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥ 009c
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च । 010a
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥ 010c
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते । 011a
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥ 011c
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः । 012a
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥ 012c
अत्र ध्वजवती नाम कुमारी हरिमेधसः । 013a
आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात् ॥ 013c
अत्र वायुस्तथा वह्निरापः खं चापि गालव । 014a
आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति ॥ 014c
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः । 015a
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ॥ 015c
अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना । 016a
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥ 016c
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः । 017a
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये ॥ 017c
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् । 018a
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥ 018c
अत्रानलसखस्यापि पवनस्य निवेशनम् । 019a
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥ 019c
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः । 020a
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥ ॥ 020c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि दशाधिकशततमोऽध्यायः ॥

5-110-1 गोपतेः दिक्पालस्य ॥ 5-110-2 अह्रः पश्चाद्भागे गाः रश्मीन् विसर्जयति । अतएव पश्चिमा । 5-110-5 पश्चात्कृताः वेगेन पृष्ठतः कृताः ॥ 5-110-9 मन्दरं समुद्रे मग्नम् । एतेन हिमवन्मूलस्य समुद्रजलस्य चाप्रमेयत्वमुक्तम् ॥ 5-110-10 काञ्चनमयानि अम्बुरुहाणि यत्र तस्य उदधेः समुद्रतुल्यस्य सरसः ॥ 5-110-12 सुवर्णशिरसो मुनेः । हरिरोम्णः अपलितस्य नित्यतरुणस्येत्यर्थः ॥ 5-110-13 हरिमेधसो मुनेः कुमारी । तिष्ठतिष्ठेति सूर्यस्य शासनात् ॥ 5-110-14 वाय्वादयोऽत्र दुःखदं शीतोष्णस्पर्शं विमुञ्चन्ति । सदा सुखसंस्पर्शा एवेत्यर्थः ॥ 5-110-16 सोमसंयोगयोगतः सोमसंयोगसदृशाद्योगात् ॥ 5-110-17 स्रवन्तीनां नदीनाम् । सागरस्य उदयः पूर्तिर्येन तादृशः प्रभवः ॥ 5-110-20 दिगद्वारेण सङ्क्षेपप्रकारेण ॥