अध्यायः 107

विश्वामित्रोक्तलक्षणाश्वाधिगमोपायापरिज्ञानेन शोचता गालवेन स्वार्थलाभाय श्रीविष्णूपासनम् ॥ 1 ॥ सुहृदा गरुडेन गालवमुपगम्य स्वेन तस्याभिमतदेशप्राणकथनम् ॥ 2 ॥ नारद उवच । 001
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता । 001a
नास्ते न शेते नाहारं कुरुते गालवस्तदा ॥ 001c
त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः । 002a
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना । 002c
गालवो दुःखितो दुःखाद्विललाप सुयोधन ॥ 002e
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः । 003a
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥ 003c
कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे । 004a
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥ 004c
अहं पारे समुद्रस्य पृथिव्या वा परं परात् । 005a
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ 005c
अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः । 006a
ऋणं धारयमाणस्य कुतः सुखमनीहया ॥ 006c
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् । 007a
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ 007c
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः । 008a
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ॥ 008c
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः । 009a
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ 009c
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् । 010a
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ 010c
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् । 011a
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ॥ 011c
सोऽहं पापः कृतघ्नश्च कृपणश्चानृतोऽपि च । 012a
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ॥ 012c
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् । 013a
अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम् ॥ 013c
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे । 014a
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् । 014c
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ॥ 014e
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् । 015a
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम् ॥ 015c
एवमुक्ते सखा तस्य गरुडो विनतात्मजः । 016a
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ॥ 016c
सहृद्भवान्मम मतः सुहृदां च मतः सुहृत् । 017a
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ॥ 017c
विभवश्चास्ति मे विप्र वासवावरजो द्विज । 018a
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ॥ 018c
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् । 019a
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम् ॥ 019c

5-107-5 परं परात् दूरादपि दूरम् । आत्मानं देहम् । 5-107-6 अनीहया अनुद्यमेन ॥ 5-107-7 ईप्सितं दास्यामीति विश्वासमुत्पाद्य ॥ 5-107-8 करिष्येतीति सन्धिरार्षः ॥ 5-107-9 अनृतस्य सत्यहीनस्य ॥ 5-107-11 तन्त्रणं कुटुम्बधारणम् ॥ 5-107-14 अत्राहमितिपदस्य द्विरावृत्तिर्वक्तुर्वैक्लव्याददोषः ॥