अध्यायः 105
सुमुखाय आयुर्दानश्रवणकुपितेन गरुडेन इन्द्रोपेन्द्रावभ्येत्य दर्पेक्तिः ॥ 1 ॥ उपेन्द्रेण तार्क्ष्यदर्पविमोक्षणाय तदंसे स्वदक्षबाहुविक्षेपे तद्वहनाक्षमेण तेन तत्क्षमापनम् ॥ 2 ॥ कण्वेन सुयोधनम्प्रति गरुडनिदर्शनप्रदर्शनपूर्वकं गर्वपरिहारेण पाण्डवैः सह शमविधानम् ॥ 3 ॥ दुर्योधनेन ऊरुताडनपूर्वकं कण्वोपहासे तेन तं प्रति तव ऊरावेव मृत्युर्भविष्यतीति शापदानम् ॥ 4 ॥
कण्व उवाच । 001
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः । 001a
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥ 001c
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः । 002a
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥ 002c
गरुड उवाच । 003
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम । 003a
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥ 003c
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे । 004a
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥ 004c
वृतश्चैष महानागः स्थापितः समयश्च मे । 005a
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥ 005c
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे । 006a
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥ 006c
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम । 007a
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥ 007c
'कण्व उवाच । 008a
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा । 008a
त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् । 008c
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ॥ 008e
इन्द्र उवाच । 009
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि । 009a
दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना । 009c
श्रुत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ॥' 009e
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् । 010a
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥ 010c
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम । 011a
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ॥ 011c
ममापि दक्षस्य सुता जननी कश्यपः पिता । 012a
अहमतप्युत्सहे लोकान्समन्ताद्वोढुमोजसा ॥ 012c
असह्यं सर्वभूतानां ममापि विपुलं बलम् । 013a
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥ 013c
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः । 014a
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥ 014c
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् । 015a
वहामि चैवानुजं ते तेन मामवमन्यसे ॥ 015c
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः । 016a
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ॥ 016c
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः । 017a
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥ 017c
अदित्यां य इमे जाता बलविक्रमशालिनः । 018a
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥ 018c
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः । 019a
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ॥ 019c
कण्व उवाच । 020
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम् । 020a
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥ 020c
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् । 021a
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥ 021c
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे । 022a
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥ 022c
'न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् । 023a
'इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह । 023c
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥ 023e
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् । 024a
'आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।' 024c
निपपात स भारार्तो विह्वलो नष्टचेतनः ॥ 024c
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह । 025a
एकस्या देहशाखायास्तावद्भारममन्यत ॥ 025c
न त्वेनं पीडयामास बलेन बलवत्तरः । 026a
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥ 026c
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः । 027a
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥ 027c
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः । 028a
विचेता विह्वलो दीनः किञ्चिद्वचनमब्रवीत् ॥ 028c
भगवल्ँलोकसारस्य सदृशेन वपुष्मता । 029a
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥ 029c
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः । 030a
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥ 030c
न हि ज्ञातं बलं देव मया ते परमं विभो । 031a
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥ 031c
कण्व उवाच । 032
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः । 032a
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥ 032c
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि । 033a
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ॥ 033c
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः । 034a
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥ 034c
कण्व उवाच । 035
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे । 035a
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥ 035c
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः । 036a
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥ 036c
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ । 037a
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥ 037c
तदलं ते विरोधेन शमं गच्छ नृपात्मज । 038a
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥ 038c
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः । 039a
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥ 039c
वैशम्पायन उवाच । 040a
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः । 040a
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत्तदा ॥ 040c
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः । 041a
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥ 041c
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः । 042a
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥ 042c
'ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् । 043a
यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ॥' ॥ 043c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाधिकशततमोऽध्यायः ॥