अध्यायः 104
नारदेन आर्यकम्प्रति पौत्रार्थं मातलिकन्यापरिग्रहचोदनम् ॥ 1 ॥ आर्यकेण नारदम्प्रति सुमुखजनकं भक्षितवता वैनतेयेन मासान्तरे सुमुखभक्षणप्रतिज्ञानिवेदनम् ॥ 2 ॥ मातलिना तार्क्ष्यात्सुमुखरिरक्षया सुमुखनारदाभ्यां सह शक्रसमीपगमनम् ॥ 3 ॥ नारदेन मातालिकार्यं विज्ञापितेन विष्णुना सुमुखाय अमृतवितरणाज्ञापनेपि इन्द्रेण अमृताप्रदानेनैव दीर्घायुर्दानम् ॥ 4 ॥ मातलिना सुमुखाय स्वकन्यां प्रदाय विवाहनिर्वर्तनम् ॥ 5 ॥
कण्व उवाच । 001
मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः । 001a
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन ॥ 001c
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् । 002a
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥ 002c
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च । 003a
अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥ 003c
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् । 004a
देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ 004c
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः । 005a
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ॥ 005c
अस्य कन्या वरारोहा रूपेणासदृशी भुवि । 006a
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ॥ 006c
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते । 007a
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥ 007c
यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् । 008a
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ॥ 008c
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः । 009a
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥ 009c
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु । 010a
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥ 010c
पितृहीनमपि ह्येनं गुणतो वरयामहे । 011a
बहुमानाच्च भवतस्तथैवैरावतस्य च ॥ 011c
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः । 012a
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः । 012c
मातलिस्तस्य सम्मानं कर्तुमर्हो भवानपि ॥ 012e
कण्व उवाच । 013
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः । 013a
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥ 013c
आर्यक उवाच । 014
मन्ये नैतद्बहुमतं महर्षे वचनं तव । 014a
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् । 014c
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ॥ 014e
अस्य देहकरस्तात मम पुत्रो महाद्युते । 015a
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥ 015c
पुनरेव च तेनोक्तं वैनतेयेन गच्छता । 016a
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥ 016a
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम् । 017a
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥ 017c
कण्व उवाच । 018
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया । 018a
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥ 018c
सोऽयं मया च सहितो नारदेन च पन्नगः । 019a
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥ 019c
शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः । 020a
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥ 020c
सुमुखश्च मया सार्धं देवेशमभिगच्छतु । 021a
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥ 021c
'कण्व उवाच । 022
आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत । 022a
'ततस्ते सुमुखं गृह्य सर्व एव महौजसः । 022c
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥ 022e
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः । 023a
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥ 023c
वैशम्पायन उवाच । 024
ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम् । 024a
अमृतं दीयतामस्मै क्रियताममरैः समः ॥ 024c
मातलिर्नारदश्चैव सुमुखश्चैव वासव । 025a
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥ 025c
पुरन्दरोऽथ सञ्चिन्त्य वैनतेयपराक्रमम् । 026a
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥ 026c
विष्णुरुवाच । 027
ईशस्त्वं सर्वलोकानां चराणामचराश्च ये । 027a
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥ 027c
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम् । 028a
न त्वेनममृतप्राशं चकार बलवृत्रहा ॥ 028c
लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह । 029a
कृतदारो यथाकामं जगाम च गृहान्प्रति ॥ 029c
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ । 030a
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ ॥ 030c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुरधिकशततमोऽध्यायः ॥
5-104-20 अस्यायुषः शेषेण कार्येण प्रज्ञास्यामि विज्ञापयिष्यामि ॥