अध्यायः 103
नारदेन मातलिं भोगवतीं नीत्वा वरान्वेषणचोदनम् ॥ 1 ॥ तत्र सुमुखं नाम कञ्चन भुजगराजमभिरोचमानेन मातलिना नारदम्प्रति तस्य जन्मकर्मादिप्रश्नः ॥ 2 ॥ नारदेन तस्य आर्यकनाम्नो भोगिनः पौत्रत्वे कीर्तिते मातलिना नारदम्प्रति तद्धटनाभ्यर्थना ॥ 3 ॥
नारद उवाच । 001
इयं भोगवती नाम पुरी वासुकिपालिता । 001a
यादृशी देवराजस्य पुरी वर्याऽमरावती ॥ 001c
एष शेषः स्थितो नागो येनेयं धार्यते सदा । 002a
तपसा लोकमुख्येन प्रभावसहिता मही ॥ 002c
श्वेताचलनिभाकारो दिव्याभरणभूषितः । 003a
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥ 003c
इह नानाविधाकारा नानाविधविभूषणाः । 004a
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ 004c
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः । 005a
सहस्रसङ्ख्या बलिन सर्वे रौद्राः स्वभावतः ॥ 005c
सहस्रशिरसः केचित्केचित्पञ्चशताननाः । 006a
शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च ॥ 006c
द्विपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा । 007a
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ 007c
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । 008a
नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु ॥ 008c
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ । 009a
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ 009c
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः । 010a
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ 010c
आर्यको नन्दकश्चैव तथा कलशपोतकौ । 011a
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ 011c
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ । 012a
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥ 012c
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः । 013a
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ 013c
करवीरः पीठरकः संवृत्तो वृत्त एव च । 014a
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ 014c
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः । 015a
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥ 015c
विरजा धारणश्चैव सुबाहुर्मुखरो जयः । 016a
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥ 016c
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः । 017a
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥ 017c
कण्व उवाच । 018
मातलिस्त्वेकमव्यग्रः सततं सन्निरीक्ष्य वै । 018a
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ 018c
मातलिरुवाच । 019
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु । 019a
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥ 019c
कः पिता जननी चास्य कतमस्यैष भोगिनः । 020a
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥ 020c
प्रणिधानेन धैर्येण रूपेण वयसा च मे । 021a
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ 021c
कण्व उवाच । 022
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात् । 022a
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ 022c
नारद उवाच । 023
ऐरावतकुले जातः सुमुखो नाम नागराट् । 023a
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ 023c
एतस्य हि पिता नागश्चिकुरो नाम मातले । 024a
नचिराद्वैतनेयेन पञ्चत्वमुपपादितः ॥ 024c
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः । 025a
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ 025c
क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै । 026a
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥ ॥ 026c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्र्यधिकशततमोऽध्यायः ॥