अध्यायः 102

नारदेन मातलिं रसातलमुपनीय तत्र वास्तव्यसुरभिसन्ततिगुणस्तवनम् ॥ 1 ॥ नारद उवाच । 001
इदं रसातलं नाम सप्तमं पृथिवीतलम् । 001a
यत्रास्ते सुरभिर्माता गवाममृतसम्भवा ॥ 001c
क्षरन्ती सततं क्षीरं पृथिवीसारसम्भवम् । 002a
षण्णां रसानां सारेण रसमेकमनुत्तमम् ॥ 002c
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा । 003a
पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥ 003c
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले । 004a
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते ॥ 004c
पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम् । 005a
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥ 005c
फेनपा नाम ते ख्याताः फेनाहाराश्च मातले । 006a
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ 006c
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले । 007a
निवसन्ति दिशां पाल्यो धारयन्त्योदिशःस्म ताः ॥ 007c
पूर्वां दिशं धारयते सुरूपा नाम सौरभी । 008a
दक्षिणां हंसिका नाम धारयत्यपरां दिशम् ॥ 008c
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया । 009a
महानुभावया नित्यं मातले विश्वरूपया ॥ 009c
सर्वकामदुघा नाम धेनुर्धारयते दिशम् । 010a
उत्तरां मातले धर्म्यां तथैलविलसंश्रिताम् ॥ 010c
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे । 011a
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥ 011c
अद्धृता वारुणी लक्ष्मीरमृतं चापि मातले । 012a
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥ 012c
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् । 013a
अमृतं चामृताशेषु सुरभी क्षरते पयः ॥ 013c
अत्र गाथा पुरा गीता रसातलनिवासिभिः । 014a
पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥ 014c
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे । 015a
परिवासः सुखस्तादृक् रसातलतले यथा ॥ ॥ 015c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यानपर्वणि द्व्यधिकशततमोऽध्यायः ॥

5-102-11 असुरसंहितैः असुरसहितैः ॥ 5-102-15 परिवासः निवासः । सुखः सुखकरः ॥ 15 ॥