अध्यायः 101

नारदेन मातलिं सुपर्णलोकमुपनीय सुपर्णवंश्यानां पक्षिणां नामनिर्देशपूर्वकं गुणानुकीर्तनम् ॥ 1 ॥ तत्र वरानभिरोचने देशान्तरनयनवचनम् ॥ 2 ॥ नारद उवाच । 001
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् । 001a
विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥ 001c
वैनतेयसुतैः सूत पङ्भिस्ततमिदं कुलम् । 002a
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥ 002c
सुरुचा पक्षिराजेन सुबलेन च मातले । 003a
वर्धितानि प्रसृत्या वै विनाताकुलकर्तृभिः ॥ 003c
पक्षिराजाभिजात्यानां सहस्राणि शतानि च । 004a
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥ 004c
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः । 005a
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥ 005c
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः । 006a
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वैः ॥ 006c
नामानि चैषां वक्ष्यामि यथाप्राधान्यतः श्रृणु । 007a
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥ 007c
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् । 008a
हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः ॥ 008c
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः । 009a
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥ 009c
पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः । 010a
वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा ॥ 010c
त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा । 011a
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः ॥ 011c
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः । 012a
मेषहृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥ 012c
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः । 013a
विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा ॥ 013c
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च । 014a
मालयो मातरिश्वा च निशाकरदिवाकरौ ॥ 014c
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः । 015a
प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्चये ॥ 015c
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले । 016a
तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे ॥ ॥ 016c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकाधिकशततमोऽध्यायः ॥

5-101-3 प्रसृत्या प्रकृष्टगत्या जवेन वृद्धिमन्तीत्यर्थः ॥