अध्यायः 100
नारदेन दैत्यदानवायतनं हिरण्यपुरमुपेत्य मातलिं प्रति तत्र वरान्वेषणचोदनम् ॥ 1 ॥ मातलिना दैत्यदानवानां देवकुलनित्यविरोधितया परपक्षानुबन्धानभिरुचिवचनम् ॥ 2 ॥
नारद उवाच KK05-06-100-001
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् । KK05-06-100-001a
दैत्यानां दानवानां च मायाशतविचारिणाम् ॥ KK05-06-100-001c
अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा । KK05-06-100-002a
मयेन मनसा सृष्टं पातालतलमाश्रितम् ॥ KK05-06-100-002c
अत्र मायासहस्राणि वविकुर्वाणा महौजसः । KK05-06-100-003a
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा ॥ KK05-06-100-003c
नैते शक्रेण नान्येन यमेन वरुणेन वा । KK05-06-100-004a
शक्यन्ते वशमानेतुं तथैव धनदेन च ॥ KK05-06-100-004c
असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः । KK05-06-100-005a
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये ॥ KK05-06-100-005c
दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः । KK05-06-100-006a
मायावीर्योपसम्पन्ना निवसन्त्यत्र मातले ॥ KK05-06-100-006c
निवातकवचा नाम दानवा युद्धदुर्मदाः । KK05-06-100-007a
जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् ॥ KK05-06-100-007c
बहुशो मातले त्वं च तव पुत्रश्च गोमुखः । KK05-06-100-008a
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥ KK05-06-100-008c
पश्य वेश्मानि रौक्माणि मातले राजतानि च । KK05-06-100-009a
कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥ KK05-06-100-009c
वैदूर्यमणिचित्राणि प्रवालरुचिराणि च । KK05-06-100-010a
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ॥ KK05-06-100-010c
पार्थिवानीव चाभान्ति पद्मरागमयानि च । KK05-06-100-011a
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत ॥ KK05-06-100-011c
सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च । KK05-06-100-012a
मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥ KK05-06-100-012c
नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा । KK05-06-100-013a
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥ KK05-06-100-013c
आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत । KK05-06-100-014a
रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥ KK05-06-100-014c
जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च । KK05-06-100-015a
कामपुष्पफलांश्चापि पादपान्कामचारिणः ॥ KK05-06-100-015c
मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् । KK05-06-100-016a
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥ KK05-06-100-016c
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् । KK05-06-100-017a
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ॥ KK05-06-100-017c
नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः । KK05-06-100-018a
परपक्षेण सम्बन्धं रोचयिष्याम्यहं कथम् ॥ KK05-06-100-018c
अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् । KK05-06-100-019a
जानामि तव चात्मानं हिंसात्मकमनं तथा ॥ ॥ KK05-06-100-019c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि शततमोऽध्यायः ॥
5-100-11 शैलानि शिलामयानि ॥ 5-100-14 आक्रीडान् क्रीडास्थानानि ॥ 5-100-19 हिंसात्मकमनं हिंसाप्रधानानां दैत्यानां कमनम् अपेक्षणीयम् । जानामि तु तवात्मानमिच्छसे कलहानिति इति क. पाठः ॥