अध्यायः 099

नारदेन मातलिं पातालं नीत्वा तत्रत्यवस्तुविशेषान्प्रदर्श्य तद्गुणनिरूपणम् ॥ 1 ॥ मातलिना तत्र वरानभिरोचनवचनपूर्वकमन्यत्र यात्राकीर्तनम् ॥ 2 ॥ नारद उवाच KK05-06-099-001
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् । KK05-06-099-001a
पातालमिति विख्यातं दैत्यदानवसेवितम् ॥ KK05-06-099-001c
इदमद्भिः समं प्राप्ता ये केचिद्भुवि जङ्गमाः । KK05-06-099-002a
प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥ KK05-06-099-002c
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः । KK05-06-099-003a
व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥ KK05-06-099-003c
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ॥ KK05-06-099-004a
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥ KK05-06-099-004c
अत्रादित्यो हयशिराः काले पर्वणि पर्वणि । KK05-06-099-005a
उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत् ॥ KK05-06-099-005c
यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः । KK05-06-099-006a
तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम् ॥ KK05-06-099-006c
ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितः । KK05-06-099-007a
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥ KK05-06-099-007c
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः । KK05-06-099-008a
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥ KK05-06-099-008c
अत्र नानाविधाकारास्तिमयो नैकरूपिणः । KK05-06-099-009a
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥ KK05-06-099-009c
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः । KK05-06-099-010a
मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि ॥ KK05-06-099-010c
उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः । KK05-06-099-011a
अमृतं स्पृश्य संस्पर्शात्सञ्जीवयति देहिनः ॥ KK05-06-099-011c
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः । KK05-06-099-012a
दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥ KK05-06-099-012c
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः । KK05-06-099-013a
भूतये सर्वभूतानामचरत्तप उत्तमम् ॥ KK05-06-099-013c
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः । KK05-06-099-014a
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥ KK05-06-099-014c
यत्रतत्रशयो नित्यं येनकेनचिदाशितः । KK05-06-099-015a
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ॥ KK05-06-099-015c
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः । KK05-06-099-016a
वरयिष्यामि तं गत्वा यत्नमास्थाय मातले ॥ KK05-06-099-016c
अण्डमेतज्जले न्यस्तं दीप्यमानमिव श्रिया । KK05-06-099-017a
आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ॥ KK05-06-099-017c
नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै । KK05-06-099-018a
पितरं मातरं चापि नास्य जानाति कश्चन ॥ KK05-06-099-018c
अतः किल महानग्निरन्तकाले समुत्थितः । KK05-06-099-019a
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥ KK05-06-099-019c
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् । KK05-06-099-020a
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥ ॥ KK05-06-099-020c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि ऊनशततमोऽध्यायः ॥

5-99-2 अद्भिः समं प्राप्ताः जलवेगेनानीताः ॥ 5-99-3 व्यापारेण जगदनुग्रहरूपेण तदर्थमितियावत् । निबद्धं मर्यादायां स्थापितम् ॥ 5-99-5 आदित्योऽदितेः पुत्रो विष्णुर्हयग्रीवरूपी ॥ 5-99-14 स्वाध्यायाम्नायो वेदपाठः ॥ 5-99-17 आप्रजानां निसर्गात् प्रयोत्पत्तिमारभ्य ॥ 5-99-18 जातिं जन्म । निसर्गं स्वभावम् ॥