अध्यायः 098

पातालं गच्छतो मातलेः वरुणं गच्छता नारदेन यदृच्छया पथि समागमः ॥ 1 ॥ वरुणेन सत्कृतयोस्तयोस्तमापृच्छ्य पातालं प्रति निवर्तनम् ॥ 2 ॥ नारदेन मातलिं प्रति वरुणलोके तत्तद्वस्तुविशेषान्प्रदर्श्य तद्गुणवर्णनम् ॥ 3 ॥ कण्व उवाच KK05-06-098-001
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा । KK05-06-098-001a
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥ KK05-06-098-001c
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः । KK05-06-098-002a
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥ KK05-06-098-002c
मातलिर्नारदेनैवं सम्पृष्टः पथि गच्छता । KK05-06-098-003a
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति ॥ KK05-06-098-003c
तमुवाचाथ स मुनिर्गच्छावः सहिताविति । KK05-06-098-004a
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥ KK05-06-098-004c
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् । KK05-06-098-005a
दृष्ट्वा तत्र वरं कञ्चिद्रोचयिष्याव मातले ॥ KK05-06-098-005c
अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ । KK05-06-098-006a
ददृशाते महात्मानौ लोकपालमपां पतिम् ॥ KK05-06-098-006c
तत्र देवर्षिसदृशीं पूजां स प्राप नारदः । KK05-06-098-007a
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥ KK05-06-098-007c
तावुभौ प्रीतमनसौ कार्यवन्तौ निवेद्य ह । KK05-06-098-008a
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥ KK05-06-098-008c
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् । KK05-06-098-009a
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥ KK05-06-098-009c
नारद उवाच KK05-06-098-010
दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः । KK05-06-098-010a
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥ KK05-06-098-010c
एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः । KK05-06-098-011a
एष वै शीलवृत्तेन शौचेन च विशिष्यते ॥ KK05-06-098-011c
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः । KK05-06-098-012a
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥ KK05-06-098-012c
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् । KK05-06-098-013a
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः ॥ KK05-06-098-013c
भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम् । KK05-06-098-014a
यत्प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥ KK05-06-098-014c
एतानि हृतराज्यानां दैतेयानां स्म मातले । KK05-06-098-015a
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥ KK05-06-098-015c
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले । KK05-06-098-016a
अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥ KK05-06-098-016c
अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले । KK05-06-098-017a
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥ KK05-06-098-017c
अग्निरेष महार्चिष्माञ्जागर्ति वारुणे ह्रदे । KK05-06-098-018a
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥ KK05-06-098-018c
एष गाण्डीमयश्चापो लोकसंहारसम्भृतः । KK05-06-098-019a
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥ KK05-06-098-019c
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् । KK05-06-098-020a
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवः ॥ KK05-06-098-020c
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु । KK05-06-098-021a
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना ॥ KK05-06-098-021c
एतच्छस्त्रं नरेन्द्राणां महच्चक्रेण भासितम् । KK05-06-098-022a
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥ KK05-06-098-022c
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् । KK05-06-098-023a
सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥ KK05-06-098-023c
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् । KK05-06-098-024a
तमसा मूर्छितं भाति येन नार्छति दर्शनम् ॥ KK05-06-098-024c
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले । KK05-06-098-025a
तव कार्योपरोधस्तु तस्माद्गच्छाव मा चिरम् ॥ ॥ KK05-06-098-025c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टनवतितमोऽध्यायः ॥

5-98-9 यन्तुः यन्तारं मातलिं प्रति ॥ 5-98-11 गोपतेः वारिपतेः ॥ 5-98-13 कृतः तन्नामकः ॥ 5-98-14 वारुण्यं वारुण्याः सुरायाः इदं वारुण्यं सुरा विद्यते येषां ते सुराः ॥ 5-98-16 विवर्तते प्रक्षिप्तान्यपि पुनःपुनः प्रहर्तुर्हस्तमायान्ति ॥ 5-98-17 जात्यः जातीयाः ॥ 5-98-18 हविष्मताऽग्निना आविद्धं रुद्धं विष्णुचक्रजमप्यत्र भयं नास्तीत्यर्थः ॥ 5-98-19 गाण्डी खङ्गाख्यः पशुविशेषः तस्य विकारो गाण्डीमयः गाण्डीमयत्वादेव तत् गाण्डीवं नाम धनुरभूत् । गाण्डी वज्रग्रन्थिस्तन्मय इत्यन्ये ॥ 5-98-21 रक्षोबन्धुषु रक्षस्तुल्येषु ॥ 5-98-22 एतच्छस्त्रं धनुः । चक्रेण चक्रादपि ॥ 5-98-24 येन यस्मात्करणात् मूर्च्छितम् अभिभूतम् आवृतमितियावत् । नार्छति न प्राप्नोति जन इति शेषः ॥